७.८४.१संजय उवाच
७.८४.२अलम्बुसं तथा युद्धे विचरन्तमभीतवत्
हैडिम्बः प्रययौ तूर्णं विव्याध च शितैः शरैः
७.८४.३तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः
कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव
७.८४.४अलम्बुसो भृशं क्रुद्धो घटोत्कचमताडयत्
घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे
अलम्बुसमथो विद्ध्वा सिंहवद्व्यनदन्मुहुः
७.८४.५तथैवालम्बुसो राजन्हैडिम्बं युद्धदुर्मदम्
विद्ध्वा विद्ध्वानदद्धृष्टः पूरयन्खं समन्ततः
७.८४.६तथा तौ भृशसंक्रुद्धौ राक्षसेन्द्रौ महाबलौ
निर्विशेषमयुध्येतां मायाभिरितरेतरम्
७.८४.७मायाशतसृजौ दृप्तौ मोहयन्तौ परस्परम्
मायायुद्धे सुकुशलौ मायायुद्धमयुध्यताम्
७.८४.८यां यां घटोत्कचो युद्धे मायां दर्शयते नृप
तां तामलम्बुसो राजन्माययैव निजघ्निवान्
७.८४.९तं तथा युध्यमानं तु मायायुद्धविशारदम्
अलम्बुसं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः
७.८४.१०त एनं भृशसंक्रुद्धाः सर्वतः प्रवरा रथैः
अभ्यद्रवन्त संक्रुद्धा भीमसेनादयो नृप
७.८४.११त एनं कोष्ठकीकृत्य रथवंशेन मारिष
सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम्
७.८४.१२स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया
तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः
७.८४.१३स विस्फार्य धनुर्घोरमिन्द्राशनिसमस्वनम्
मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः
युधिष्ठिरं त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः
७.८४.१४नकुलं च त्रिसप्तत्या द्रौपदेयांश्च मारिष
पञ्चभिः पञ्चभिर्विद्ध्वा घोरं नादं ननाद ह
७.८४.१५तं भीमसेनो नवभिः सहदेवश्च पञ्चभिः
युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत
नकुलश्च चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः
७.८४.१६हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः
पुनर्विव्याध सप्तत्या ननाद च महाबलः
७.८४.१७सोऽतिविद्धो महेष्वासः सर्वतस्तैर्महारथैः
प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः
७.८४.१८तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः
हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः
७.८४.१९सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः
व्यसृजत्सायकांस्तूर्णं स्वर्णपुङ्खाञ्शिलाशितान्
७.८४.२०ते शरा नतपर्वाणो विविशू राक्षसं तदा
रुषिताः पन्नगा यद्वद्गिरिमुग्रा महाबलाः
७.८४.२१ततस्ते पाण्डवा राजन्समन्तान्निशिताञ्शरान्
प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः
७.८४.२२स वध्यमानः समरे पाण्डवैर्जितकाशिभिः
दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयोपमम्
७.८४.२३समुत्क्षिप्य च बाहुभ्यामाविध्य च पुनः पुनः
निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि
७.८४.२४बललाघवसंपन्नः संपन्नो विक्रमेण च
भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत्
७.८४.२५स विस्फुटितसर्वाङ्गश्चूर्णितास्थिविभूषणः
घटोत्कचेन वीरेण हतः सालकटङ्कटः
७.८४.२६ततः सुमनसः पार्था हते तस्मिन्निशाचरे
चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह
७.८४.२७तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम्
अलम्बुसं भीमरूपं विशीर्णमिव पर्वतम्
हाहाकारमकुर्वन्त सैन्यानि भरतर्षभ
७.८४.२८जनाश्च तद्ददृशिरे रक्षः कौतूहलान्विताः
यदृच्छया निपतितं भूमावङ्गारकं यथा
७.८४.२९घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम्
मुमोच बलवन्नादं बलं हत्वेव वासवः
७.८४.३०स पूज्यमानः पितृभिः सबान्धवै;र्घटोत्कचः कर्मणि दुष्करे कृते
रिपुं निहत्याभिननन्द वै तदा; अलम्बुसं पक्वमलम्बुसं यथा
७.८४.३१ततो निनादः सुमहान्समुत्थितः; सशङ्खनानाविधबाणघोषवान्
निशम्य तं प्रत्यनदंस्तु कौरवा;स्ततो ध्वनिर्भुवनमथास्पृशद्भृशम्