७.९६.१संजय उवाच
७.९६.२जित्वा यवनकाम्बोजान्युयुधानस्ततोऽर्जुनम्
जगाम तव सैन्यस्य मध्येन रथिनां वरः
७.९६.३शरदंष्ट्रो नरव्याघ्रो विचित्रकवचच्छविः
मृगान्व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषयत्
७.९६.४स रथेन चरन्मार्गान्धनुरभ्रामयद्भृशम्
रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसंकुलम्
७.९६.५रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः
रुक्मध्वजवरः शूरो मेरुशृङ्ग इवाबभौ
७.९६.६सधनुर्मण्डलः संख्ये तेजोभास्वररश्मिवान्
शरदीवोदितः सूर्यो नृसूर्यो विरराज ह
७.९६.७वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः
तावकानां बभौ मध्ये गवां मध्ये यथा वृषः
७.९६.८मत्तद्विरदसंकाशं मत्तद्विरदगामिनम्
प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम्
व्याघ्रा इव जिघांसन्तस्त्वदीयाभ्यद्रवन्रणे
७.९६.९द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम्
जलसंधार्णवं तीर्त्वा काम्बोजानां च वाहिनीम्
७.९६.१०हार्दिक्यमकरान्मुक्तं तीर्णं वै सैन्यसागरम्
परिवव्रुः सुसंक्रुद्धास्त्वदीयाः सात्यकिं रथाः
७.९६.११दुर्योधनश्चित्रसेनो दुःशासनविविंशती
शकुनिर्दुःसहश्चैव युवा दुर्मर्षणः क्रथः
७.९६.१२अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः
पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिताः
७.९६.१३अथ शब्दो महानासीत्तव सैन्यस्य मारिष
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि
७.९६.१४तानभिद्रवतः सर्वान्समीक्ष्य शिनिपुंगवः
शनैर्याहीति यन्तारमब्रवीत्प्रहसन्निव
७.९६.१५इदमेति समुद्धूतं धार्तराष्ट्रस्य यद्बलम्
मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत्
७.९६.१६नादयन्वै दिशः सर्वा रथघोषेण सारथे
पृथिवीं चान्तरिक्षं च कम्पयन्सागरानपि
७.९६.१७एतद्बलार्णवं तात वारयिष्ये महारणे
पौर्णमास्यामिवोद्धूतं वेलेव सलिलाशयम्
७.९६.१८पश्य मे सूत विक्रान्तमिन्द्रस्येव महामृधे
एष सैन्यानि शत्रूणां विधमामि शितैः शरैः
७.९६.१९निहतानाहवे पश्य पदात्यश्वरथद्विपान्
मच्छरैरग्निसंकाशैर्विदेहासून्सहस्रशः
७.९६.२०इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः
समीपं सैनिकास्ते तु शीघ्रमीयुर्युयुत्सवः
जह्याद्रवस्व तिष्ठेति पश्य पश्येति वादिनः
७.९६.२१तानेवं ब्रुवतो वीरान्सात्यकिर्निशितैः शरैः
जघान त्रिशतानश्वान्कुञ्जरांश्च चतुःशतान्
७.९६.२२स संप्रहारस्तुमुलस्तस्य तेषां च धन्विनाम्
देवासुररणप्रख्यः प्रावर्तत जनक्षयः
७.९६.२३मेघजालनिभं सैन्यं तव पुत्रस्य मारिष
प्रत्यगृह्णाच्छिनेः पौत्रः शरैराशीविषोपमैः
७.९६.२४प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान्
असंभ्रमं महाराज तावकानवधीद्बहून्
७.९६.२५आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम्
न मोघः सायकः कश्चित्सात्यकेरभवत्प्रभो
७.९६.२६रथनागाश्वकलिलः पदात्यूर्मिसमाकुलः
शैनेयवेलामासाद्य स्थितः सैन्यमहार्णवः
७.९६.२७संभ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः
तत्सैन्यमिषुभिस्तेन वध्यमानं समन्ततः
बभ्राम तत्र तत्रैव गावः शीतार्दिता इव
७.९६.२८पदातिनं रथं नागं सादिनं तुरगं तथा
अविद्धं तत्र नाद्राक्षं युयुधानस्य सायकैः
७.९६.२९न तादृक्कदनं राजन्कृतवांस्तत्र फल्गुनः
यादृक्क्षयमनीकानामकरोत्सात्यकिर्नृप
अत्यर्जुनं शिनेः पौत्रो युध्यते भरतर्षभ
७.९६.३०ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः
विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान्
७.९६.३१सात्यकिं च त्रिभिर्विद्ध्वा पुनर्विव्याध सोऽष्टभिः
दुःशासनः षोडशभिर्विव्याध शिनिपुंगवम्
७.९६.३२शकुनिः पञ्चविंशत्या चित्रसेनश्च पञ्चभिः
दुःसहः पञ्चदशभिर्विव्याधोरसि सात्यकिम्
७.९६.३३उत्स्मयन्वृष्णिशार्दूलस्तथा बाणैः समाहतः
तानविध्यन्महाराज सर्वानेव त्रिभिस्त्रिभिः
७.९६.३४गाढविद्धानरीन्कृत्वा मार्गणैः सोऽतितेजनैः
शैनेयः श्येनवत्संख्ये व्यचरल्लघुविक्रमः
७.९६.३५सौबलस्य धनुश्छित्त्वा हस्तावापं निकृत्य च
दुर्योधनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे
७.९६.३६चित्रसेनं शतेनैव दशभिर्दुःसहं तथा
दुःशासनं च विंशत्या विव्याध शिनिपुंगवः
७.९६.३७अथान्यद्धनुरादाय स्यालस्तव विशां पते
अष्टभिः सात्यकिं विद्ध्वा पुनर्विव्याध पञ्चभिः
७.९६.३८दुःशासनश्च दशभिर्दुःसहश्च त्रिभिः शरैः
दुर्मुखश्च द्वादशभी राजन्विव्याध सात्यकिम्
७.९६.३९दुर्योधनस्त्रिसप्तत्या विद्ध्वा भारत माधवम्
ततोऽस्य निशितैर्बाणैस्त्रिभिर्विव्याध सारथिम्
७.९६.४०तान्सर्वान्सहिताञ्शूरान्यतमानान्महारथान्
पञ्चभिः पञ्चभिर्बाणैः पुनर्विव्याध सात्यकिः
७.९६.४१ततः स रथिनां श्रेष्ठस्तव पुत्रस्य सारथिम्
आजघानाशु भल्लेन स हतो न्यपतद्भुवि
७.९६.४२पातिते सारथौ तस्मिंस्तव पुत्ररथः प्रभो
वातायमानैस्तैरश्वैरपानीयत संगरात्
७.९६.४३ततस्तव सुता राजन्सैनिकाश्च विशां पते
राज्ञो रथमभिप्रेक्ष्य विद्रुताः शतशोऽभवन्
७.९६.४४विद्रुतं तत्र तत्सैन्यं दृष्ट्वा भारत सात्यकिः
अवाकिरच्छरैस्तीक्ष्णै रुक्मपुङ्खैः शिलाशितैः
७.९६.४५विद्राव्य सर्वसैन्यानि तावकानि समन्ततः
प्रययौ सात्यकी राजञ्श्वेताश्वस्य रथं प्रति
७.९६.४६तं शरानाददानं च रक्षमाणं च सारथिम्
आत्मानं मोचयन्तं च तावकाः समपूजयन्