८. कर्णपर्व
८.११.१संजय उवाच

८.११.२भीमसेनं ततो द्रौणी राजन्विव्याध पत्रिणा
त्वरया परया युक्तो दर्शयन्नस्त्रलाघवम्

८.११.३अथैनं पुनराजघ्ने नवत्या निशितैः शरैः
सर्वमर्माणि संप्रेक्ष्य मर्मज्ञो लघुहस्तवत्

८.११.४भीमसेनः समाकीर्णो द्रौणिना निशितैः शरैः
रराज समरे राजन्रश्मिवानिव भास्करः

८.११.५ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः
द्रोणपुत्रमवच्छाद्य सिंहनादममुञ्चत

८.११.६शरैः शरांस्ततो द्रौणिः संवार्य युधि पाण्डवम्
ललाटेऽभ्यहनद्राजन्नाराचेन स्मयन्निव

८.११.७ललाटस्थं ततो बाणं धारयामास पाण्डवः
यथा शृङ्गं वने दृप्तः खड्गो धारयते नृप

८.११.८ततो द्रौणिं रणे भीमो यतमानं पराक्रमी
त्रिभिर्विव्याध नाराचैर्ललाटे विस्मयन्निव

८.११.९ललाटस्थैस्ततो बाणैर्ब्राह्मणः स व्यरोचत
प्रावृषीव यथा सिक्तस्त्रिशृङ्गः पर्वतोत्तमः

८.११.१०ततः शरशतैर्द्रौणिमर्दयामास पाण्डवः
न चैनं कम्पयामास मातरिश्वेव पर्वतम्

८.११.११तथैव पाण्डवं युद्धे द्रौणिः शरशतैः शितैः
नाकम्पयत संहृष्टो वार्योघ इव पर्वतम्

८.११.१२तावन्योन्यं शरैर्घोरैश्छादयानौ महारथौ
रथचर्यागतौ शूरौ शुशुभाते रणोत्कटौ

८.११.१३आदित्याविव संदीप्तौ लोकक्षयकरावुभौ
स्वरश्मिभिरिवान्योन्यं तापयन्तौ शरोत्तमैः

८.११.१४कृतप्रतिकृते यत्नं कुर्वाणौ च महारणे
कृतप्रतिकृते यत्नं चक्राते तावभीतवत्

८.११.१५व्याघ्राविव च संग्रामे चेरतुस्तौ महारथौ
शरदंष्ट्रौ दुराधर्षौ चापव्यात्तौ भयानकौ

८.११.१६अभूतां तावदृश्यौ च शरजालैः समन्ततः
मेघजालैरिव च्छन्नौ गगने चन्द्रभास्करौ

८.११.१७प्रकाशौ च मुहूर्तेन तत्रैवास्तामरिंदमौ
विमुक्तौ मेघजालेन शशिसूर्यौ यथा दिवि

८.११.१८अपसव्यं ततश्चक्रे द्रौणिस्तत्र वृकोदरम्
किरञ्शरशतैरुग्रैर्धाराभिरिव पर्वतम्

८.११.१९न तु तन्ममृषे भीमः शत्रोर्विजयलक्षणम्
प्रतिचक्रे च तं राजन्पाण्डवोऽप्यपसव्यतः

८.११.२०मण्डलानां विभागेषु गतप्रत्यागतेषु च
बभूव तुमुलं युद्धं तयोस्तत्र महामृधे

८.११.२१चरित्वा विविधान्मार्गान्मण्डलं स्थानमेव च
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः

८.११.२२अन्योन्यस्य वधे यत्नं चक्रतुस्तौ महारथौ
ईषतुर्विरथं चैव कर्तुमन्योन्यमाहवे

८.११.२३ततो द्रौणिर्महास्त्राणि प्रादुश्चक्रे महारथः
तान्यस्त्रैरेव समरे प्रतिजघ्नेऽस्य पाण्डवः

८.११.२४ततो घोरं महाराज अस्त्रयुद्धमवर्तत
ग्रहयुद्धं यथा घोरं प्रजासंहरणे अभूत्

८.११.२५ते बाणाः समसज्जन्त क्षिप्तास्ताभ्यां तु भारत
द्योतयन्तो दिशः सर्वास्तच्च सैन्यं समन्ततः

८.११.२६बाणसंघावृतं घोरमाकाशं समपद्यत
उक्लापातकृतं यद्वत्प्रजानां संक्षये नृप

८.११.२७बाणाभिघातात्संजज्ञे तत्र भारत पावकः
सविस्फुलिङ्गो दीप्तार्चिः सोऽदहद्वाहिनीद्वयम्

८.११.२८तत्र सिद्धा महाराज संपतन्तोऽब्रुवन्वचः
अति युद्धानि सर्वाणि युद्धमेतत्ततोऽधिकम्

८.११.२९सर्वयुद्धानि चैतस्य कलां नार्हन्ति षोडशीम्
नैतादृशं पुनर्युद्धं न भूतं न भविष्यति

८.११.३०अहो ज्ञानेन संयुक्तावुभौ चोग्रपराक्रमौ
अहो भीमे बलं भीममेतयोश्च कृतास्त्रता

८.११.३१अहो वीर्यस्य सारत्वमहो सौष्ठवमेतयोः
स्थितावेतौ हि समरे कालान्तकयमोपमौ

८.११.३२रुद्रौ द्वाविव संभूतौ यथा द्वाविव भास्करौ
यमौ वा पुरुषव्याघ्रौ घोररूपाविमौ रणे

८.११.३३श्रूयन्ते स्म तदा वाचः सिद्धानां वै मुहुर्मुहुः
सिंहनादश्च संजज्ञे समेतानां दिवौकसाम्
अद्भुतं चाप्यचिन्त्यं च दृष्ट्वा कर्म तयोर्मृधे

८.११.३४तौ शूरौ समरे राजन्परस्परकृतागसौ
परस्परमुदैक्षेतां क्रोधादुद्वृत्य चक्षुषी

८.११.३५क्रोधरक्तेक्षणौ तौ तु क्रोधात्प्रस्फुरिताधरौ
क्रोधात्संदष्टदशनौ संदष्टदशनच्छदौ

८.११.३६अन्योन्यं छादयन्तौ स्म शरवृष्ट्या महारथौ
शराम्बुधारौ समरे शस्त्रविद्युत्प्रकाशिनौ

८.११.३७तावन्योन्यं ध्वजौ विद्ध्वा सारथी च महारथौ
अन्योन्यस्य हयान्विद्ध्वा बिभिदाते परस्परम्

८.११.३८ततः क्रुद्धौ महाराज बाणौ गृह्य महाहवे
उभौ चिक्षिपतुस्तूर्णमन्योन्यस्य वधैषिणौ

८.११.३९तौ सायकौ महाराज द्योतमानौ चमूमुखे
आजघ्नाते समासाद्य वज्रवेगौ दुरासदौ

८.११.४०तौ परस्परवेगाच्च शराभ्यां च भृशाहतौ
निपेततुर्महावीरौ स्वरथोपस्थयोस्तदा

८.११.४१ततस्तु सारथिर्ज्ञात्वा द्रोणपुत्रमचेतनम्
अपोवाह रणाद्राजन्सर्वक्षत्रस्य पश्यतः

८.११.४२तथैव पाण्डवं राजन्विह्वलन्तं मुहुर्मुहुः
अपोवाह रथेनाजौ सारथिः शत्रुतापनम्