८.१३.१संजय उवाच
८.१३.२अथोत्तरेण पाण्डूनां सेनायां ध्वनिरुत्थितः
रथनागाश्वपत्तीनां दण्डधारेण वध्यताम्
८.१३.३निवर्तयित्वा तु रथं केशवोऽर्जुनमब्रवीत्
वाहयन्नेव तुरगान्गरुडानिलरंहसः
८.१३.४मागधोऽथाप्यतिक्रान्तो द्विरदेन प्रमाथिना
भगदत्तादनवरः शिक्षया च बलेन च
८.१३.५एनं हत्वा निहन्तासि पुनः संशप्तकानिति
वाक्यान्ते प्रापयत्पार्थं दण्डधारान्तिकं प्रति
८.१३.६स मागधानां प्रवरोऽङ्कुशग्रहो; ग्रहेष्वसह्यो विकचो यथा ग्रहः
सपत्नसेनां प्रममाथ दारुणो; महीं समग्रां विकचो यथा ग्रहः
८.१३.७सुकल्पितं दानवनागसंनिभं; महाभ्रसंह्रादममित्रमर्दनम्
रथाश्वमातङ्गगणान्सहस्रशः; समास्थितो हन्ति शरैर्द्विपानपि
८.१३.८रथानधिष्ठाय सवाजिसारथी;न्रथांश्च पद्भिस्त्वरितो व्यपोथयत्
द्विपांश्च पद्भ्यां चरणैः करेण च; द्विपास्थितो हन्ति स कालचक्रवत्
८.१३.९नरांश्च कार्ष्णायसवर्मभूषणा;न्निपात्य साश्वानपि पत्तिभिः सह
व्यपोथयद्दन्तिवरेण शुष्मिणा; सशब्दवत्स्थूलनडान्यथा तथा
८.१३.१०अथार्जुनो ज्यातलनेमिनिस्वने; मृदङ्गभेरीबहुशङ्खनादिते
नराश्वमातङ्गसहस्रनादितै; रथोत्तमेनाभ्यपतद्द्विपोत्तमम्
८.१३.११ततोऽर्जुनं द्वादशभिः शरोत्तमै;र्जनार्दनं षोडशभिः समार्दयत्
स दण्डधारस्तुरगांस्त्रिभिस्त्रिभि;स्ततो ननाद प्रजहास चासकृत्
८.१३.१२ततोऽस्य पार्थः सगुणेषुकार्मुकं; चकर्त भल्लैर्ध्वजमप्यलंकृतम्
पुनर्नियन्तॄन्सह पादगोप्तृभि;स्ततस्तु चुक्रोध गिरिव्रजेश्वरः
८.१३.१३ततोऽर्जुनं भिन्नकटेन दन्तिना; घनाघनेनानिलतुल्यरंहसा
अतीव चुक्षोभयिषुर्जनार्दनं; धनंजयं चाभिजघान तोमरैः
८.१३.१४अथास्य बाहू द्विपहस्तसंनिभौ; शिरश्च पूर्णेन्दुनिभाननं त्रिभिः
क्षुरैः प्रचिच्छेद सहैव पाण्डव;स्ततो द्विपं बाणशतैः समार्दयत्
८.१३.१५स पार्थबाणैस्तपनीयभूषणैः; समारुचत्काञ्चनवर्मभृद्द्विपः
तथा चकाशे निशि पर्वतो यथा; दवाग्निना प्रज्वलितौषधिद्रुमः
८.१३.१६स वेदनार्तोऽम्बुदनिस्वनो नदं;श्चलन्भ्रमन्प्रस्खलितोऽऽतुरो द्रवन्
पपात रुग्णः सनियन्तृकस्तथा; यथा गिरिर्वज्रनिपातचूर्णितः
८.१३.१७हिमावदातेन सुवर्णमालिना; हिमाद्रिकूटप्रतिमेन दन्तिना
हते रणे भ्रातरि दण्ड आव्रज;ज्जिघांसुरिन्द्रावरजं धनंजयम्
८.१३.१८स तोमरैरर्ककरप्रभैस्त्रिभि;र्जनार्दनं पञ्चभिरेव चार्जुनम्
समर्पयित्वा विननाद चार्दयं;स्ततोऽस्य बाहू विचकर्त पाण्डवः
८.१३.१९क्षुरप्रकृत्तौ सुभृशं सतोमरौ; च्युताङ्गदौ चन्दनरूषितौ भुजौ
गजात्पतन्तौ युगपद्विरेजतु;र्यथाद्रिशृङ्गात्पतितौ महोरगौ
८.१३.२०अथार्धचन्द्रेण हृतं किरीटिना; पपात दण्डस्य शिरः क्षितिं द्विपात्
तच्छोणिताभं निपतद्विरेजे; दिवाकरोऽस्तादिव पश्चिमां दिशम्
८.१३.२१अथ द्विपं श्वेतनगाग्रसंनिभं; दिवाकरांशुप्रतिमैः शरोत्तमैः
बिभेद पार्थः स पपात नानद;न्हिमाद्रिकूटः कुलिशाहतो यथा
८.१३.२२ततोऽपरे तत्प्रतिमा गजोत्तमा; जिगीषवः संयति सव्यसाचिनम्
तथा कृतास्तेन यथैव तौ द्विपौ; ततः प्रभग्नं सुमहद्रिपोर्बलम्
८.१३.२३गजा रथाश्वाः पुरुषाश्च संघशः; परस्परघ्नाः परिपेतुराहवे
परस्परप्रस्खलिताः समाहता; भृशं च तत्तत्कुलभाषिणो हताः
८.१३.२४अथार्जुनं स्वे परिवार्य सैनिकाः; पुरंदरं देवगणा इवाब्रुवन्
अभैष्म यस्मान्मरणादिव प्रजाः; स वीर दिष्ट्या निहतस्त्वया रिपुः
८.१३.२५न चेत्परित्रास्य इमाञ्जनान्भया;द्द्विषद्भिरेवं बलिभिः प्रपीडितान्
तथाभविष्यद्द्विषतां प्रमोदनं; यथा हतेष्वेष्विह नोऽरिषु त्वया
८.१३.२६इतीव भूयश्च सुहृद्भिरीरिता; निशम्य वाचः सुमनास्ततोऽर्जुनः
यथानुरूपं प्रतिपूज्य तं जनं; जगाम संशप्तकसंघहा पुनः