८. कर्णपर्व
८.१४.१संजय उवाच

८.१४.२प्रत्यागत्य पुनर्जिष्णुरहन्संशप्तकान्बहून्
वक्रानुवक्रगमनादङ्गारक इव ग्रहः

८.१४.३पार्थबाणहता राजन्नराश्वरथकुञ्जराः
विचेलुर्बभ्रमुर्नेदुः पेतुर्मम्लुश्च मारिष

८.१४.४धुर्यं धुर्यतरान्सूतान्रथांश्च परिसंक्षिपन्
पाणीन्पाणिगतं शस्त्रं बाहूनपि शिरांसि च

८.१४.५भल्लैः क्षुरैरर्धचन्द्रैर्वत्सदन्तैश्च पाण्डवः
चिच्छेदामित्रवीराणां समरे प्रतियुध्यताम्

८.१४.६वाशितार्थे युयुत्सन्तो वृषभा वृषभं यथा
आपतन्त्यर्जुनं शूराः शतशोऽथ सहस्रशः

८.१४.७तेषां तस्य च तद्युद्धमभवल्लोमहर्षणम्
त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा

८.१४.८तमविध्यत्त्रिभिर्बाणैर्दन्दशूकैरिवाहिभिः
उग्रायुधस्ततस्तस्य शिरः कायादपाहरत्

८.१४.९तेऽर्जुनं सर्वतः क्रुद्धा नानाशस्त्रैरवीवृषन्
मरुद्भिः प्रेषिता मेघा हिमवन्तमिवोष्णगे

८.१४.१०अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः
सम्यगस्तैः शरैः सर्वान्सहितानहनद्बहून्

८.१४.११छिन्नत्रिवेणुजङ्घेषान्निहतपार्ष्णिसारथीन्
संछिन्नरश्मियोक्त्राक्षान्व्यनुकर्षयुगान्रथान्
विध्वस्तसर्वसंनाहान्बाणैश्चक्रेऽर्जुनस्त्वरन्

८.१४.१२ते रथास्तत्र विध्वस्ताः परार्ध्या भान्त्यनेकशः
धनिनामिव वेश्मानि हतान्यग्न्यनिलाम्बुभिः

८.१४.१३द्विपाः संभिन्नमर्माणो वज्राशनिसमैः शरैः
पेतुर्गिर्यग्रवेश्मानि वज्रवाताग्निभिर्यथा

८.१४.१४सारोहास्तुरगाः पेतुर्बहवोऽर्जुनताडिताः
निर्जिह्वान्त्राः क्षितौ क्षीणा रुधिरार्द्राः सुदुर्दृशः

८.१४.१५नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना
बभ्रमुश्चस्खलुः पेतुर्नेदुर्मम्लुश्च मारिष

८.१४.१६अणकैश्च शिलाधौतैर्वज्राशनिविषोपमैः
शरैर्निजघ्निवान्पार्थो महेन्द्र इव दानवान्

८.१४.१७महार्हवर्माभरणा नानारूपाम्बरायुधाः
सरथाः सध्वजा वीरा हताः पार्थेन शेरते

८.१४.१८विजिताः पुण्यकर्माणो विशिष्टाभिजनश्रुताः
गताः शरीरैर्वसुधामूर्जितैः कर्मभिर्दिवम्

८.१४.१९अथार्जुनरथं वीरास्त्वदीयाः समुपाद्रवन्
नानाजनपदाध्यक्षाः सगणा जातमन्यवः

८.१४.२०उह्यमाना रथाश्वैस्ते पत्तयश्च जिघांसवः
समभ्यधावन्नस्यन्तो विविधं क्षिप्रमायुधम्

८.१४.२१तदायुधमहावर्षं क्षिप्तं योधमहाम्बुदैः
व्यधमन्निशितैर्बाणैः क्षिप्रमर्जुनमारुतः

८.१४.२२साश्वपत्तिद्विपरथं महाशस्त्रौघमप्लवम्
सहसा संतितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना

८.१४.२३अथाब्रवीद्वासुदेवः पार्थं किं क्रीडसेऽनघ
संशप्तकान्प्रमथ्यैतांस्ततः कर्णवधे त्वर

८.१४.२४तथेत्युक्त्वार्जुनः क्षिप्रं शिष्टान्संशप्तकांस्तदा
आक्षिप्य शस्त्रेण बलाद्दैत्यानिन्द्र इवावधीत्

८.१४.२५आदधत्संदधन्नेषून्दृष्टः कैश्चिद्रणेऽर्जुनः
विमुञ्चन्वा शराञ्शीघ्रं दृश्यते स्म हि कैरपि

८.१४.२६आश्चर्यमिति गोविन्दो ब्रुवन्नश्वानचोदयत्
हंसांसगौरास्ते सेनां हंसाः सर इवाविशन्

८.१४.२७ततः संग्रामभूमिं तां वर्तमाने जनक्षये
अवेक्षमाणो गोविन्दः सव्यसाचिनमब्रवीत्

८.१४.२८एष पार्थ महारौद्रो वर्तते भरतक्षयः
पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान्

८.१४.२९पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम्
महतामपविद्धानि कलापानिषुधीस्तथा

८.१४.३०जातरूपमयैः पुङ्खैः शरांश्च नतपर्वणः
तैलधौतांश्च नाराचान्निर्मुक्तानिव पन्नगान्

८.१४.३१हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान्
आकीर्णांस्तोमरांश्चापांश्चित्रान्हेमविभूषितान्

८.१४.३२वर्माणि चापविद्धानि रुक्मपृष्ठानि भारत
सुवर्णविकृतान्प्रासाञ्शक्तीः कनकभूषिताः

८.१४.३३जाम्बूनदमयैः पट्टैर्बद्धाश्च विपुला गदाः
जातरूपमयीश्चर्ष्टीः पट्टिशान्हेमभूषितान्

८.१४.३४दण्डैः कनकचित्रैश्च विप्रविद्धान्परश्वधान्
अयस्कुशान्तान्पतितान्मुसलानि गुरूणि च

८.१४.३५शतघ्नीः पश्य चित्राश्च विपुलान्परिघांस्तथा
चक्राणि चापविद्धानि मुद्गरांश्च बहून्रणे

८.१४.३६नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः
जीवन्त इव लक्ष्यन्ते गतसत्त्वास्तरस्विनः

८.१४.३७गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान्
गजवाजिरथक्षुण्णान्पश्य योधान्सहस्रशः

८.१४.३८मनुष्यगजवाजीनां शरशक्त्यृष्टितोमरैः
निस्त्रिंशैः पट्टिशैः प्रासैर्नखरैर्लगुडैरपि

८.१४.३९शरीरैर्बहुधा भिन्नैः शोणितौघपरिप्लुतैः
गतासुभिरमित्रघ्न संवृता रणभूमयः

८.१४.४०बाहुभिश्चन्दनादिग्धैः साङ्गदैः शुभभूषणैः
सतलत्रैः सकेयूरैर्भाति भारत मेदिनी

८.१४.४१साङ्गुलित्रैर्भुजाग्रैश्च विप्रविद्धैरलंकृतैः
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम्

८.१४.४२बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः
निकृत्तैर्वृषभाक्षाणां विराजति वसुंधरा

८.१४.४३कबन्धैः शोणितादिग्धैश्छिन्नगात्रशिरोधरैः
भूर्भाति भरतश्रेष्ठ शान्तार्चिर्भिरिवाग्निभिः

८.१४.४४रथान्बहुविधान्भग्नान्हेमकिङ्किणिनः शुभान्
अश्वांश्च बहुधा पश्य शोणितेन परिप्लुतान्

८.१४.४५योधानां च महाशङ्खान्पाण्डुरांश्च प्रकीर्णकान्
निरस्तजिह्वान्मातङ्गाञ्शयानान्पर्वतोपमान्

८.१४.४६वैजयन्तीविचित्रांश्च हतांश्च गजयोधिनः
वारणानां परिस्तोमान्सुयुक्ताम्बरकम्बलान्

८.१४.४७विपाटिता विचित्राश्च रूपचित्राः कुथास्तथा
भिन्नाश्च बहुधा घण्टाः पतद्भिश्चूर्णिता गजैः

८.१४.४८वैडूर्यमणिदण्डांश्च पतितानङ्कुशान्भुवि
बद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कशाः

८.१४.४९विचित्रान्मणिचित्रांश्च जातरूपपरिष्कृतान्
अश्वास्तरपरिस्तोमान्राङ्कवान्पतितान्भुवि

८.१४.५०चूडामणीन्नरेन्द्राणां विचित्राः काञ्चनस्रजः
छत्राणि चापविद्धानि चामरव्यजनानि च

८.१४.५१चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः
कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलंकृतैः
वदनैः पश्य संछन्नां महीं शोणितकर्दमाम्

८.१४.५२सजीवांश्च नरान्पश्य कूजमानान्समन्ततः
उपास्यमानान्बहुभिर्न्यस्तशस्त्रैर्विशां पते

८.१४.५३ज्ञातिभिः सहितैस्तत्र रोदमानैर्मुहुर्मुहुः
व्युत्क्रान्तानपरान्योधांश्छादयित्वा तरस्विनः
पुनर्युद्धाय गच्छन्ति जयगृद्धाः प्रमन्यवः

८.१४.५४अपरे तत्र तत्रैव परिधावन्ति मानिनः
ज्ञातिभिः पतितैः शूरैर्याच्यमानास्तथोदकम्

८.१४.५५जलार्थं च गताः केचिन्निष्प्राणा बहवोऽर्जुन
संनिवृत्ताश्च ते शूरास्तान्दृष्ट्वैव विचेतसः

८.१४.५६जलं दृष्ट्वा प्रधावन्ति क्रोशमानाः परस्परम्
जलं पीत्वा मृतान्पश्य पिबतोऽन्यांश्च भारत

८.१४.५७परित्यज्य प्रियानन्ये बान्धवान्बान्धवप्रिय
व्युत्क्रान्ताः समदृश्यन्त तत्र तत्र महारणे

८.१४.५८पश्यापरान्नरश्रेष्ठ संदष्टौष्ठपुटान्पुनः
भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षमाणान्समन्ततः

८.१४.५९एतत्तवैवानुरूपं कर्मार्जुन महाहवे
दिवि वा देवराजस्य त्वया यत्कृतमाहवे

८.१४.६०एवं तां दर्शयन्कृष्णो युद्धभूमिं किरीटिने
गच्छन्नेवाशृणोच्छब्दं दुर्योधनबले महत्

८.१४.६१शङ्खदुन्दुभिनिर्घोषान्भेरीपणवमिश्रितान्
रथाश्वगजनादांश्च शस्त्रशब्दांश्च दारुणान्

८.१४.६२प्रविश्य तद्बलं कृष्णस्तुरगैर्वातवेगिभिः
पाण्ड्येनाभ्यर्दितां सेनां त्वदीयां वीक्ष्य धिष्ठितः

८.१४.६३स हि नानाविधैर्बाणैरिष्वासप्रवरो युधि
न्यहनद्द्विषतां व्रातान्गतासूनन्तको यथा

८.१४.६४गजवाजिमनुष्याणां शरीराणि शितैः शरैः
भित्त्वा प्रहरतां श्रेष्ठो विदेहासूंश्चकार सः

८.१४.६५शत्रुप्रवीरैरस्तानि नानाशस्त्राणि सायकैः
भित्त्वा तानहनत्पाण्ड्यः शत्रूञ्शक्र इवासुरान्