८.१६.१धृतराष्ट्र उवाच
८.१६.२पाण्ड्ये हते किमकरोदर्जुनो युधि संजय
एकवीरेण कर्णेन द्रावितेषु परेषु च
८.१६.३समाप्तविद्यो बलवान्युक्तो वीरश्च पाण्डवः
सर्वभूतेष्वनुज्ञातः शंकरेण महात्मना
८.१६.४तस्मान्महद्भयं तीव्रममित्रघ्नाद्धनंजयात्
स यत्तत्राकरोत्पार्थस्तन्ममाचक्ष्व संजय
८.१६.५संजय उवाच
८.१६.६हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचो हितम्
पश्यातिमान्यं राजानमपयातांश्च पाण्डवान्
८.१६.७अश्वत्थाम्नश्च संकल्पाद्धताः कर्णेन सृञ्जयाः
तथाश्वनरनागानां कृतं च कदनं महत्
इत्याचष्ट सुदुर्धर्षो वासुदेवः किरीटिने
८.१६.८एतच्छ्रुत्वा च दृष्ट्वा च भ्रातुर्घोरं महद्भयम्
वाहयाश्वान्हृषीकेश क्षिप्रमित्याह पाण्डवः
८.१६.९ततः प्रायाद्धृषीकेशो रथेनाप्रतियोधिना
दारुणश्च पुनस्तत्र प्रादुरासीत्समागमः
८.१६.१०ततः प्रववृते भूयः संग्रामो राजसत्तम
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः
८.१६.११धनूंषि बाणान्परिघानसितोमरपट्टिशान्
मुसलानि भुशुण्डीश्च शक्तिऋष्टिपरश्वधान्
८.१६.१२गदाः प्रासानसीन्कुन्तान्भिण्डिपालान्महाङ्कुशान्
प्रगृह्य क्षिप्रमापेतुः परस्परजिगीषया
८.१६.१३बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत्
पृथिवीं नेमिघोषेण नादयन्तोऽभ्ययुः परान्
८.१६.१४तेन शब्देन महता संहृष्टाश्चक्रुराहवम्
वीरा वीरैर्महाघोरं कलहान्तं तितीर्षवः
८.१६.१५ज्यातलत्रधनुःशब्दाः कुञ्जराणां च बृंहितम्
ताडितानां च पततां निनादः सुमहानभूत्
८.१६.१६बाणशब्दांश्च विविधाञ्शूराणामभिगर्जताम्
श्रुत्वा शब्दं भृशं त्रेसुर्जघ्नुर्मम्लुश्च भारत
८.१६.१७तेषां नानद्यतां चैव शस्त्रवृष्टिं च मुञ्चताम्
बहूनाधिरथिः कर्णः प्रममाथ रणेषुभिः
८.१६.१८पञ्च पाञ्चालवीराणां रथान्दश च पञ्च च
साश्वसूतध्वजान्कर्णः शरैर्निन्ये यमक्षयम्
८.१६.१९योधमुख्या महावीर्याः पाण्डूनां कर्णमाहवे
शीघ्रास्त्रा दिवमावृत्य परिवव्रुः समन्ततः
८.१६.२०ततः कर्णो द्विषत्सेनां शरवर्षैर्विलोडयन्
विजगाहेऽण्डजापूर्णां पद्मिनीमिव यूथपः
८.१६.२१द्विषन्मध्यमवस्कन्द्य राधेयो धनुरुत्तमम्
विधुन्वानः शितैर्बाणैः शिरांस्युन्मथ्य पातयत्
८.१६.२२चर्मवर्माणि संछिन्द्य निर्वापमिव देहिनाम्
विषेहुर्नास्य संपर्कं द्वितीयस्य पतत्रिणः
८.१६.२३वर्मदेहासुमथनैर्धनुषः प्रच्युतैः शरैः
मौर्व्या तलत्रैर्न्यवधीत्कशया वाजिनो यथा
८.१६.२४पाण्डुसृञ्जयपाञ्चालाञ्शरगोचरमानयत्
ममर्द कर्णस्तरसा सिंहो मृगगणानिव
८.१६.२५ततः पाञ्चालपुत्राश्च द्रौपदेयाश्च मारिष
यमौ च युयुधानश्च सहिताः कर्णमभ्ययुः
८.१६.२६व्यायच्छमानाः सुभृशं कुरुपाण्डवसृञ्जयाः
प्रियानसून्रणे त्यक्त्वा योधा जग्मुः परस्परम्
८.१६.२७सुसंनद्धाः कवचिनः सशिरस्त्राणभूषणाः
गदाभिर्मुसलैश्चान्ये परिघैश्च महारथाः
८.१६.२८समभ्यधावन्त भृशं देवा दण्डैरिवोद्यतैः
नदन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष
८.१६.२९ततो निजघ्नुरन्योन्यं पेतुश्चाहवताडिताः
वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षणा युधि
८.१६.३०दन्तपूर्णैः सरुधिरैर्वक्त्रैर्दाडिमसंनिभैः
जीवन्त इव चाप्येते तस्थुः शस्त्रोपबृंहिताः
८.१६.३१परस्परं चाप्यपरे पट्टिशैरसिभिस्तथा
शक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः
८.१६.३२ततक्षुश्चिच्छिदुश्चान्ये बिभिदुश्चिक्षिपुस्तथा
संचकर्तुश्च जघ्नुश्च क्रुद्धा निर्बिभिदुश्च ह
८.१६.३३पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताः
क्षरन्तः स्वरसं रक्तं प्रकृताश्चन्दना इव
८.१६.३४रथै रथा विनिहता हस्तिनश्चापि हस्तिभिः
नरा नरवरैः पेतुरश्वाश्चाश्वैः सहस्रशः
८.१६.३५ध्वजाः शिरांसि च्छत्राणि द्विपहस्ता नृणां भुजाः
क्षुरैर्भल्लार्धचन्द्रैश्च छिन्नाः शस्त्राणि तत्यजुः
८.१६.३६नरांश्च नागांश्च रथान्हयान्ममृदुराहवे
अश्वारोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः
८.१६.३७सपताका ध्वजाः पेतुर्विशीर्णा इव पर्वताः
पत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा
८.१६.३८प्रहता हन्यमानाश्च पतिताश्चैव सर्वशः
अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर्हताः
सादिभिः पत्तिसंघाश्च निहता युधि शेरते
८.१६.३९मृदितानीव पद्मानि प्रम्लाना इव च स्रजः
हतानां वदनान्यासन्गात्राणि च महामते
८.१६.४०रूपाण्यत्यर्थकाम्यानि द्विरदाश्वनृणां नृप
समुन्नानीव वस्त्राणि प्रापुर्दुर्दर्शतां परम्