८.२५.१दुर्योधन उवाच
८.२५.२एवं स भगवान्देवः सर्वलोकपितामहः
सारथ्यमकरोत्तत्र यत्र रुद्रोऽभवद्रथी
८.२५.३रथिनाभ्यधिको वीरः कर्तव्यो रथसारथिः
तस्मात्त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि
८.२५.४संजय उवाच
८.२५.५ततः शल्यः परिष्वज्य सुतं ते वाक्यमब्रवीत्
दुर्योधनममित्रघ्नः प्रीतो मद्राधिपस्तदा
८.२५.६एवं चेन्मन्यसे राजन्गान्धारे प्रियदर्शन
तस्मात्ते यत्प्रियं किंचित्तत्सर्वं करवाण्यहम्
८.२५.७यत्रास्मि भरतश्रेष्ठ योग्यः कर्मणि कर्हिचित्
तत्र सर्वात्मना युक्तो वक्ष्ये कार्यधुरं तव
८.२५.८यत्तु कर्णमहं ब्रूयां हितकामः प्रियाप्रियम्
मम तत्क्षमतां सर्वं भवान्कर्णश्च सर्वशः
८.२५.९कर्ण उवाच
८.२५.१०ईशानस्य यथा ब्रह्मा यथा पार्थस्य केशवः
तथा नित्यं हिते युक्तो मद्रराज भजस्व नः
८.२५.११शल्य उवाच
८.२५.१२आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः
अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम्
८.२५.१३यत्तु विद्वन्प्रवक्ष्यामि प्रत्ययार्थमहं तव
आत्मनः स्तवसंयुक्तं तन्निबोध यथातथम्
८.२५.१४अहं शक्रस्य सारथ्ये योग्यो मातलिवत्प्रभो
अप्रमादप्रयोगाच्च ज्ञानविद्याचिकित्सितैः
८.२५.१५ततः पार्थेन संग्रामे युध्यमानस्य तेऽनघ
वाहयिष्यामि तुरगान्विज्वरो भव सूतज