८. कर्णपर्व
८.६९.१संजय उवाच

८.६९.२तथा निपातिते कर्णे तव सैन्ये च विद्रुते
आश्लिष्य पार्थं दाशार्हो हर्षाद्वचनमब्रवीत्

८.६९.३हतो बलभिदा वृत्रस्त्वया कर्णो धनंजय
वधं वै कर्णवृत्राभ्यां कथयिष्यन्ति मानवाः

८.६९.४वज्रिणा निहतो वृत्रः संयुगे भूरितेजसा
त्वया तु निहतः कर्णो धनुषा निशितैः शरैः

८.६९.५तमिमं विक्रमं लोके प्रथितं ते यशोवहम्
निवेदयावः कौन्तेय धर्मराजाय धीमते

८.६९.६वधं कर्णस्य संग्रामे दीर्घकालचिकीर्षितम्
निवेद्य धर्मराजस्य त्वमानृण्यं गमिष्यसि

८.६९.७तथेत्युक्ते केशवस्तु पार्थेन यदुपुङ्गवः
पर्यवर्तयदव्यग्रो रथं रथवरस्य तम्

८.६९.८धृष्टद्युम्नं युधामन्युं माद्रीपुत्रौ वृकोदरम्
युयुधानं च गोविन्द इदं वचनमब्रवीत्

८.६९.९परानभिमुखा यत्तास्तिष्ठध्वं भद्रमस्तु वः
यावदावेद्यते राज्ञे हतः कर्णोऽर्जुनेन वै

८.६९.१०स तैः शूरैरनुज्ञातो ययौ राजनिवेशनम्
पार्थमादाय गोविन्दो ददर्श च युधिष्ठिरम्

८.६९.११शयानं राजशार्दूलं काञ्चने शयनोत्तमे
अगृह्णीतां च चरणौ मुदितौ पार्थिवस्य तौ

८.६९.१२तयोः प्रहर्षमालक्ष्य प्रहारांश्चातिमानुषान्
राधेयं निहतं मत्वा समुत्तस्थौ युधिष्ठिरः

८.६९.१३ततोऽस्मै तद्यथावृत्तं वासुदेवः प्रियंवदः
कथयामास कर्णस्य निधनं यदुनन्दनः

८.६९.१४ईषदुत्स्मयमानस्तु कृष्णो राजानमब्रवीत्
युधिष्ठिरं हतामित्रं कृताञ्जलिरथाच्युतः

८.६९.१५दिष्ट्या गाण्डीवधन्वा च पाण्डवश्च वृकोदरः
त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ

८.६९.१६मुक्ता वीरक्षयादस्मात्संग्रामाल्लोमहर्षणात्
क्षिप्रमुत्तरकालानि कुरु कार्याणि पार्थिव

८.६९.१७हतो वैकर्तनः क्रूरः सूतपुत्रो महाबलः
दिष्ट्या जयसि राजेन्द्र दिष्ट्या वर्धसि पाण्डव

८.६९.१८यः स द्यूतजितां कृष्णां प्राहसत्पुरुषाधमः
तस्याद्य सूतपुत्रस्य भूमिः पिबति शोणितम्

८.६९.१९शेतेऽसौ शरदीर्णाङ्गः शत्रुस्ते कुरुपुंगव
तं पश्य पुरुषव्याघ्र विभिन्नं बहुधा शरैः

८.६९.२०युधिष्ठिरस्तु दाशार्हं प्रहृष्टः प्रत्यपूजयत्
दिष्ट्या दिष्ट्येति राजेन्द्र प्रीत्या चेदमुवाच ह

८.६९.२१नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन
त्वया सारथिना पार्थो यत्कुर्यादद्य पौरुषम्

८.६९.२२प्रगृह्य च कुरुश्रेष्ठः साङ्गदं दक्षिणं भुजम्
उवाच धर्मभृत्पार्थ उभौ तौ केशवार्जुनौ

८.६९.२३नरनारायणौ देवौ कथितौ नारदेन ह
धर्मसंस्थापने युक्तौ पुराणौ पुरुषोत्तमौ

८.६९.२४असकृच्चापि मेधावी कृष्णद्वैपायनो मम
कथामेतां महाबाहो दिव्यामकथयत्प्रभुः

८.६९.२५तव कृष्ण प्रभावेण गाण्डीवेन धनंजयः
जयत्यभिमुखाञ्शत्रून्न चासीद्विमुखः क्वचित्

८.६९.२६जयश्चैव ध्रुवोऽस्माकं न त्वस्माकं पराजयः
यदा त्वं युधि पार्थस्य सारथ्यमुपजग्मिवान्

८.६९.२७एवमुक्त्वा महाराज तं रथं हेमभूषितम्
दन्तवर्णैर्हयैर्युक्तं कालवालैर्महारथः

८.६९.२८आस्थाय पुरुषव्याघ्रः स्वबलेनाभिसंवृतः
कृष्णार्जुनाभ्यां वीराभ्यामनुमन्य ततः प्रियम्

८.६९.२९आगतो बहुवृत्तान्तं द्रष्टुमायोधनं तदा
आभाषमाणस्तौ वीरावुभौ माधवफल्गुनौ

८.६९.३०स ददर्श रणे कर्णं शयानं पुरुषर्षभम्
गाण्डीवमुक्तैर्विशिखैः सर्वतः शकलीकृतम्

८.६९.३१सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः
प्रशशंस नरव्याघ्रावुभौ माधवपाण्डवौ

८.६९.३२अद्य राजास्मि गोविन्द पृथिव्यां भ्रातृभिः सह
त्वया नाथेन वीरेण विदुषा परिपालितः

८.६९.३३हतं दृष्ट्वा नरव्याघ्रं राधेयमभिमानिनम्
निराशोऽद्य दुरात्मासौ धार्तराष्ट्रो भविष्यति
जीविताच्चापि राज्याच्च हते कर्णे महारथे

८.६९.३४त्वत्प्रसादाद्वयं चैव कृतार्थाः पुरुषर्षभ
त्वं च गाण्डीवधन्वा च विजयी यदुनन्दन
दिष्ट्या जयसि गोविन्द दिष्ट्या कर्णो निपातितः

८.६९.३५एवं स बहुशो हृष्टः प्रशशंस जनार्दनम्
अर्जुनं चापि राजेन्द्र धर्मराजो युधिष्ठिरः

८.६९.३६ततो भीमप्रभृतिभिः सर्वैश्च भ्रातृभिर्वृतम्
वर्धयन्ति स्म राजानं हर्षयुक्ता महारथाः

८.६९.३७नकुलः सहदेवश्च पाण्डवश्च वृकोदरः
सात्यकिश्च महाराज वृष्णीनां प्रवरो रथः

८.६९.३८धृष्टद्युम्नः शिखण्डी च पाण्डुपाञ्चालसृञ्जयाः
पूजयन्ति स्म कौन्तेयं निहते सूतनन्दने

८.६९.३९ते वर्धयित्वा नृपतिं पाण्डुपुत्रं युधिष्ठिरम्
जितकाशिनो लब्धलक्षा युद्धशौण्डाः प्रहारिणः

८.६९.४०स्तुवन्तः स्तवयुक्ताभिर्वाग्भिः कृष्णौ परंतपौ
जग्मुः स्वशिबिरायैव मुदा युक्ता महारथाः

८.६९.४१एवमेष क्षयो वृत्तः सुमहाँल्लोमहर्षणः
तव दुर्मन्त्रिते राजन्नतीतं किं नु शोचसि

८.६९.४२वैशंपायन उवाच

८.६९.४३श्रुत्वा तदप्रियं राजन्धृतराष्ट्रो महीपतिः
पपात भूमौ निश्चेष्टः कौरव्यः परमार्तिवान्
तथा सत्यव्रता देवी गान्धारी धर्मदर्शिनी

८.६९.४४तं प्रत्यगृह्णाद्विदुरो नृपतिं संजयस्तथा
पर्याश्वासयतश्चैवं तावुभावेव भूमिपम्

८.६९.४५तथैवोत्थापयामासुर्गान्धारीं राजयोषितः
ताभ्यामाश्वासितो राजा तूष्णीमासीद्विचेतनः