८.८.१संजय उवाच
८.८.२ते सेनेऽन्योन्यमासाद्य प्रहृष्टाश्वनरद्विपे
बृहत्यौ संप्रजह्राते देवासुरचमूपमे
८.८.३ततो गजा रथाश्चाश्वाः पत्तयश्च महाहवे
संप्रहारं परं चक्रुर्देहपाप्मप्रणाशनम्
८.८.४पूर्णचन्द्रार्कपद्मानां कान्तित्विड्गन्धतः समैः
उत्तमाङ्गैर्नृसिंहानां नृसिंहास्तस्तरुर्महीम्
८.८.५अर्धचन्द्रैस्तथा भल्लैः क्षुरप्रैरसिपट्टिशैः
परश्वधैश्चाप्यकृन्तन्नुत्तमाङ्गानि युध्यताम्
८.८.६व्यायतायतबाहूनां व्यायतायतबाहुभिः
व्यायता बाहवः पेतुश्छिन्नमुष्ट्यायुधाङ्गदाः
८.८.७तैः स्फुरद्भिर्मही भाति रक्ताङ्गुलितलैस्तदा
गरुडप्रहतैरुग्रैः पञ्चास्यैरिव पन्नगैः
८.८.८हयस्यन्दननागेभ्यः पेतुर्वीरा द्विषद्धताः
विमानेभ्यो यथा क्षीणे पुण्ये स्वर्गसदस्तथा
८.८.९गदाभिरन्यैर्गुर्वीभिः परिघैर्मुसलैरपि
पोथिताः शतशः पेतुर्वीरा वीरतरै रणे
८.८.१०रथा रथैर्विनिहता मत्ता मत्तैर्द्विपैर्द्विपाः
सादिनः सादिभिश्चैव तस्मिन्परमसंकुले
८.८.११रथा वररथैर्नागैरश्वारोहाश्च पत्तिभिः
अश्वारोहैः पदाताश्च निहता युधि शेरते
८.८.१२रथाश्वपत्तयो नागै रथैर्नागाश्च पत्तयः
रथपत्तिद्विपाश्चाश्वैर्नृभिश्चाश्वरथद्विपाः
८.८.१३रथाश्वेभनराणां च नराश्वेभरथैः कृतम्
पाणिपादैश्च शस्त्रैश्च रथैश्च कदनं महत्
८.८.१४तथा तस्मिन्बले शूरैर्वध्यमाने हतेऽपि च
अस्मानभ्यागमन्पार्था वृकोदरपुरोगमाः
८.८.१५धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः
सात्यकिश्चेकितानश्च द्रविडैः सैनिकैः सह
८.८.१६भृता वित्तेन महता पाण्ड्याश्चौड्राः सकेरलाः
व्यूढोरस्का दीर्घभुजाः प्रांशवः प्रियदर्शनाः
८.८.१७आपीडिनो रक्तदन्ता मत्तमातङ्गविक्रमाः
नानाविरागवसना गन्धचूर्णावचूर्णिताः
८.८.१८बद्धासयः पाशहस्ता वारणप्रतिवारणाः
समानमृत्यवो राजन्ननीकस्थाः परस्परम्
८.८.१९कलापिनश्चापहस्ता दीर्घकेशाः प्रियाहवाः
पत्तयः सात्यकेरन्ध्रा घोररूपपराक्रमाः
८.८.२०अथापरे पुनः शूराश्चेदिपाञ्चालकेकयाः
करूषाः कोसलाः काश्या मागधाश्चापि दुद्रुवुः
८.८.२१तेषां रथाश्च नागाश्च प्रवराश्चापि पत्तयः
नानाविधरवैर्हृष्टा नृत्यन्ति च हसन्ति च
८.८.२२तस्य सैन्यस्य महतो महामात्रवरैर्वृतः
मध्यं वृकोदरोऽभ्यागात्त्वदीयं नागधूर्गतः
८.८.२३स नागप्रवरोऽत्युग्रो विधिवत्कल्पितो बभौ
उदयाद्र्यग्र्यभवनं यथाभ्युदितभास्करम्
८.८.२४तस्यायसं वर्मवरं वररत्नविभूषितम्
तारोद्भासस्य नभसः शारदस्य समत्विषम्
८.८.२५स तोमरप्रासकरश्चारुमौलिः स्वलंकृतः
चरन्मध्यंदिनार्काभस्तेजसा व्यदहद्रिपून्
८.८.२६तं दृष्ट्वा द्विरदं दूरात्क्षेमधूर्तिर्द्विपस्थितः
आह्वयानोऽभिदुद्राव प्रमनाः प्रमनस्तरम्
८.८.२७तयोः समभवद्युद्धं द्विपयोरुग्ररूपयोः
यदृच्छया द्रुमवतोर्महापर्वतयोरिव
८.८.२८संसक्तनागौ तौ वीरौ तोमरैरितरेतरम्
बलवत्सूर्यरश्म्याभैर्भित्त्वा भित्त्वा विनेदतुः
८.८.२९व्यपसृत्य तु नागाभ्यां मण्डलानि विचेरतुः
प्रगृह्य चैव धनुषी जघ्नतुर्वै परस्परम्
८.८.३०क्ष्वेडितास्फोटितरवैर्बाणशब्दैश्च सर्वशः
तौ जनान्हर्षयित्वा च सिंहनादान्प्रचक्रतुः
८.८.३१समुद्यतकराभ्यां तौ द्विपाभ्यां कृतिनावुभौ
वातोद्धूतपताकाभ्यां युयुधाते महाबलौ
८.८.३२तावन्योन्यस्य धनुषी छित्त्वान्योन्यं विनेदतुः
शक्तितोमरवर्षेण प्रावृण्मेघाविवाम्बुभिः
८.८.३३क्षेमधूर्तिस्तदा भीमं तोमरेण स्तनान्तरे
निर्बिभेद तु वेगेन षड्भिश्चाप्यपरैर्नदन्
८.८.३४स भीमसेनः शुशुभे तोमरैरङ्गमाश्रितैः
क्रोधदीप्तवपुर्मेघैः सप्तसप्तिरिवांशुमान्
८.८.३५ततो भास्करवर्णाभमञ्जोगतिमयस्मयम्
ससर्ज तोमरं भीमः प्रत्यमित्राय यत्नवान्
८.८.३६ततः कुलूताधिपतिश्चापमायम्य सायकैः
दशभिस्तोमरं छित्त्वा शक्त्या विव्याध पाण्डवम्
८.८.३७अथ कार्मुकमादाय महाजलदनिस्वनम्
रिपोरभ्यर्दयन्नागमुन्मदः पाण्डवः शरैः
८.८.३८स शरौघार्दितो नागो भीमसेनेन संयुगे
निगृह्यमाणो नातिष्ठद्वातध्वस्त इवाम्बुदः
८.८.३९तामभ्यधावद्द्विरदं भीमसेनस्य नागराट्
महावातेरितं मेघं वातोद्धूत इवाम्बुदः
८.८.४०संनिवर्त्यात्मनो नागं क्षेमधूर्तिः प्रयत्नतः
विव्याधाभिद्रुतं बाणैर्भीमसेनं सकुञ्जरम्
८.८.४१ततः साधुविसृष्टेन क्षुरेण पुरुषर्षभः
छित्त्वा शरासनं शत्रोर्नागमामित्रमार्दयत्
८.८.४२ततः खजाकया भीमं क्षेमधूर्तिः पराभिनत्
जघान चास्य द्विरदं नाराचैः सर्वमर्मसु
८.८.४३पुरा नागस्य पतनादवप्लुत्य स्थितो महीम्
भीमसेनो रिपोर्नागं गदया समपोथयत्
८.८.४४तस्मात्प्रमथितान्नागात्क्षेमधूर्तिमवद्रुतम्
उद्यतासिमुपायान्तं गदयाहन्वृकोदरः
८.८.४५स पपात हतः सासिर्व्यसुः स्वमभितो द्विपम्
वज्रप्ररुग्णमचलं सिंहो वज्रहतो यथा
८.८.४६निहतं नृपतिं दृष्ट्वा कुलूतानां यशस्करम्
प्राद्रवद्व्यथिता सेना त्वदीया भरतर्षभ