८. कर्णपर्व
८.९.१संजय उवाच

८.९.२ततः कर्णो महेष्वासः पाण्डवानामनीकिनीम्
जघान समरे शूरः शरैः संनतपर्वभिः

८.९.३तथैव पाण्डवा राजंस्तव पुत्रस्य वाहिनीम्
कर्णस्य प्रमुखे क्रुद्धा विनिजघ्नुर्महारथाः

८.९.४कर्णो राजन्महाबाहुर्न्यवधीत्पाण्डवीं चमूम्
नाराचैरर्करश्म्याभैः कर्मारपरिमार्जितैः

८.९.५तत्र भारत कर्णेन नाराचैस्ताडिता गजाः
नेदुः सेदुश्च मम्लुश्च बभ्रमुश्च दिशो दश

८.९.६वध्यमाने बले तस्मिन्सूतपुत्रेण मारिष
नकुलोऽभ्यद्रवत्तूर्णं सूतपुत्रं महारणे

८.९.७भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करम्
विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत्

८.९.८श्रुतकर्माणमायान्तं चित्रसेनो महीपतिः
प्रतिविन्ध्यं तथा चित्रश्चित्रकेतनकार्मुकः

८.९.९दुर्योधनस्तु राजानं धर्मपुत्रं युधिष्ठिरम्
संशप्तकगणान्क्रुद्धो अभ्यधावद्धनंजयः

८.९.१०धृष्टद्युम्नः कृपं चाथ तस्मिन्वीरवरक्षये
शिखण्डी कृतवर्माणं समासादयदच्युतम्

८.९.११श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रः सुतं तव
दुःशासनं महाराज सहदेवः प्रतापवान्

८.९.१२केकयौ सात्यकिं युद्धे शरवर्षेण भास्वता
सात्यकिः केकयौ चैव छादयामास भारत

८.९.१३तावेनं भ्रातरौ वीरं जघ्नतुर्हृदये भृशम्
विषाणाभ्यां यथा नागौ प्रतिनागं महाहवे

८.९.१४शरसंभिन्नवर्माणौ तावुभौ भ्रातरौ रणे
सात्यकिं सत्यकर्माणं राजन्विव्यधतुः शरैः

८.९.१५तौ सात्यकिर्महाराज प्रहसन्सर्वतोदिशम्
छादयञ्शरवर्षेण वारयामास भारत

८.९.१६वार्यमाणौ ततस्तौ तु शैनेयशरवृष्टिभिः
शैनेयस्य रथं तूर्णं छादयामासतुः शरैः

८.९.१७तयोस्तु धनुषी चित्रे छित्त्वा शौरिर्महाहवे
अथ तौ सायकैस्तीक्ष्णैश्छादयामास दुःसहैः

८.९.१८अथान्ये धनुषी मृष्टे प्रगृह्य च महाशरान्
सात्यकिं पूरयन्तौ तौ चेरतुर्लघु सुष्ठु च

८.९.१९ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः
द्योतयन्तो दिशः सर्वाः संपेतुः स्वर्णभूषणाः

८.९.२०बाणान्धकारमभवत्तयो राजन्महाहवे
अन्योन्यस्य धनुश्चैव चिच्छिदुस्ते महारथाः

८.९.२१ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः
धनुरन्यत्समादाय सज्यं कृत्वा च संयुगे
क्षुरप्रेण सुतीक्ष्णेन अनुविन्दशिरोऽहरत्

८.९.२२तच्छिरो न्यपतद्भूमौ कुण्डलोत्पीडितं महत्
शम्बरस्य शिरो यद्वन्निहतस्य महारणे
शोषयन्केकयान्सर्वाञ्जगामाशु वसुंधराम्

८.९.२३तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः
सज्यमन्यद्धनुः कृत्वा शैनेयं प्रत्यवारयत्

८.९.२४स शक्त्या सात्यकिं विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः
ननाद बलवन्नादं तिष्ठ तिष्ठेति चाब्रवीत्

८.९.२५स सात्यकिं पुनः क्रुद्धः केकयानां महारथः
शरैरग्निशिखाकारैर्बाह्वोरुरसि चार्दयत्

८.९.२६स शरैः क्षतसर्वाङ्गः सात्वतः सत्त्वकोविदः
रराज समरे राजन्सपत्र इव किंशुकः

८.९.२७सात्यकिः समरे विद्धः केकयेन महात्मना
केकयं पञ्चविंशत्या विव्याध प्रहसन्निव

८.९.२८शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तु तौ
व्यरोचेतां महारङ्गे निस्त्रिंशवरधारिणौ
यथा देवासुरे युद्धे जम्भशक्रौ महाबलौ

८.९.२९मण्डलानि ततस्तौ च विचरन्तौ महारणे
अन्योन्यमसिभिस्तूर्णं समाजघ्नतुराहवे

८.९.३०केकयस्य ततश्चर्म द्विधा चिच्छेद सात्वतः
सात्यकेश्च तथैवासौ चर्म चिच्छेद पार्थिवः

८.९.३१चर्म च्छित्त्वा तु कैकेयस्तारागणशतैर्वृतम्
चचार मण्डलान्येव गतप्रत्यागतानि च

८.९.३२तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम्
अपहस्तेन चिच्छेद शैनेयस्त्वरयान्वितः

८.९.३३सवर्मा केकयो राजन्द्विधा छिन्नो महाहवे
निपपात महेष्वासो वज्रनुन्न इवाचलः

८.९.३४तं निहत्य रणे शूरः शैनेयो रथसत्तमः
युधामन्यो रथं तूर्णमारुरोह परंतपः

८.९.३५ततोऽन्यं रथमास्थाय विधिवत्कल्पितं पुनः
केकयानां महत्सैन्यं व्यधमत्सात्यकिः शरैः

८.९.३६सा वध्यमाना समरे केकयस्य महाचमूः
तमुत्सृज्य रथं शत्रुं प्रदुद्राव दिशो दश