९. शल्यपर्व
९.२.१वैशंपायन उवाच

९.२.२विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः
विललाप महाराज दुःखाद्दुःखतरं गतः

९.२.३सधूममिव निःश्वस्य करौ धुन्वन्पुनः पुनः
विचिन्त्य च महाराज ततो वचनमब्रवीत्

९.२.४अहो बत महद्दुःखं यदहं पाण्डवान्रणे
क्षेमिणश्चाव्ययांश्चैव त्वत्तः सूत शृणोमि वै

९.२.५वज्रसारमयं नूनं हृदयं सुदृढं मम
यच्छ्रुत्वा निहतान्पुत्रान्दीर्यते न सहस्रधा

९.२.६चिन्तयित्वा वचस्तेषां बालक्रीडां च संजय
अद्य श्रुत्वा हतान्पुत्रान्भृशं मे दीर्यते मनः

९.२.७अन्धत्वाद्यदि तेषां तु न मे रूपनिदर्शनम्
पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता

९.२.८बालभावमतिक्रान्तान्यौवनस्थांश्च तानहम्
मध्यप्राप्तांस्तथा श्रुत्वा हृष्ट आसं तथानघ

९.२.९तानद्य निहताञ्श्रुत्वा हृतैश्वर्यान्हृतौजसः
न लभे वै क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः

९.२.१०एह्येहि पुत्र राजेन्द्र ममानाथस्य सांप्रतम्
त्वया हीनो महाबाहो कां नु यास्याम्यहं गतिम्

९.२.११गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा
अन्धं वृद्धं च मां वीर विहाय क्व नु गच्छसि

९.२.१२सा कृपा सा च ते प्रीतिः सा च राजन्सुमानिता
कथं विनिहतः पार्थैः संयुगेष्वपराजितः

९.२.१३कथं त्वं पृथिवीपालान्भुक्त्वा तात समागतान्
शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा

९.२.१४को नु मामुत्थितं काल्ये तात तातेति वक्ष्यति
महाराजेति सततं लोकनाथेति चासकृत्

९.२.१५परिष्वज्य च मां कण्ठे स्नेहेनाक्लिन्नलोचनः
अनुशाधीति कौरव्य तत्साधु वद मे वचः

९.२.१६ननु नामाहमश्रौषं वचनं तव पुत्रक
भूयसी मम पृथ्वीयं यथा पार्थस्य नो तथा

९.२.१७भगदत्तः कृपः शल्य आवन्त्योऽथ जयद्रथः
भूरिश्रवाः सोमदत्तो महाराजोऽथ बाह्लिकः

९.२.१८अश्वत्थामा च भोजश्च मागधश्च महाबलः
बृहद्बलश्च काशीशः शकुनिश्चापि सौबलः

९.२.१९म्लेच्छाश्च बहुसाहस्राः शकाश्च यवनैः सह
सुदक्षिणश्च काम्बोजस्त्रिगर्ताधिपतिस्तथा

९.२.२०भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः
श्रुतायुश्चाच्युतायुश्च शतायुश्चापि वीर्यवान्

९.२.२१जलसंधोऽथार्श्यशृङ्गी राक्षसश्चाप्यलायुधः
अलंबुसो महाबाहुः सुबाहुश्च महारथः

९.२.२२एते चान्ये च बहवो राजानो राजसत्तम
मदर्थमुद्यताः सर्वे प्राणांस्त्यक्त्वा रणे प्रभो

९.२.२३येषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः
योधयिष्याम्यहं पार्थान्पाञ्चालांश्चैव सर्वशः

९.२.२४चेदींश्च नृपशार्दूल द्रौपदेयांश्च संयुगे
सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम्

९.२.२५एकोऽप्येषां महाराज समर्थः संनिवारणे
समरे पाण्डवेयानां संक्रुद्धो ह्यभिधावताम्
किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः

९.२.२६अथ वा सर्व एवैते पाण्डवस्यानुयायिभिः
योत्स्यन्ति सह राजेन्द्र हनिष्यन्ति च तान्मृधे

९.२.२७कर्णस्त्वेको मया सार्धं निहनिष्यति पाण्डवान्
ततो नृपतयो वीराः स्थास्यन्ति मम शासने

९.२.२८यश्च तेषां प्रणेता वै वासुदेवो महाबलः
न स संनह्यते राजन्निति मामब्रवीद्वचः

९.२.२९तस्याहं वदतः सूत बहुशो मम संनिधौ
युक्तितो ह्यनुपश्यामि निहतान्पाण्डवान्मृधे

९.२.३०तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः
व्यायच्छमानाः समरे किमन्यद्भागधेयतः

९.२.३१भीष्मश्च निहतो यत्र लोकनाथः प्रतापवान्
शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम्

९.२.३२द्रोणश्च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः
निहतः पाण्डवैः संख्ये किमन्यद्भागधेयतः

९.२.३३भूरिश्रवा हतो यत्र सोमदत्तश्च संयुगे
बाह्लीकश्च महाराज किमन्यद्भागधेयतः

९.२.३४सुदक्षिणो हतो यत्र जलसंधश्च कौरवः
श्रुतायुश्चाच्युतायुश्च किमन्यद्भागधेयतः

९.२.३५बृहद्बलो हतो यत्र मागधश्च महाबलः
आवन्त्यो निहतो यत्र त्रिगर्तश्च जनाधिपः
संशप्तकाश्च बहवः किमन्यद्भागधेयतः

९.२.३६अलंबुसस्तथा राजन्राक्षसश्चाप्यलायुधः
आर्श्यशृङ्गश्च निहतः किमन्यद्भागधेयतः

९.२.३७नारायणा हता यत्र गोपाला युद्धदुर्मदाः
म्लेच्छाश्च बहुसाहस्राः किमन्यद्भागधेयतः

९.२.३८शकुनिः सौबलो यत्र कैतव्यश्च महाबलः
निहतः सबलो वीरः किमन्यद्भागधेयतः

९.२.३९राजानो राजपुत्राश्च शूराः परिघबाहवः
निहता बहवो यत्र किमन्यद्भागधेयतः

९.२.४०नानादेशसमावृत्ताः क्षत्रिया यत्र संजय
निहताः समरे सर्वे किमन्यद्भागधेयतः

९.२.४१पुत्राश्च मे विनिहताः पौत्राश्चैव महाबलाः
वयस्या भ्रातरश्चैव किमन्यद्भागधेयतः

९.२.४२भागधेयसमायुक्तो ध्रुवमुत्पद्यते नरः
यश्च भाग्यसमायुक्तः स शुभं प्राप्नुयान्नरः

९.२.४३अहं वियुक्तः स्वैर्भाग्यैः पुत्रैश्चैवेह संजय
कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः

९.२.४४नान्यदत्र परं मन्ये वनवासादृते प्रभो
सोऽहं वनं गमिष्यामि निर्बन्धुर्ज्ञातिसंक्षये

९.२.४५न हि मेऽन्यद्भवेच्छ्रेयो वनाभ्युपगमादृते
इमामवस्थां प्राप्तस्य लूनपक्षस्य संजय

९.२.४६दुर्योधनो हतो यत्र शल्यश्च निहतो युधि
दुःशासनो विशस्तश्च विकर्णश्च महाबलः

९.२.४७कथं हि भीमसेनस्य श्रोष्येऽहं शब्दमुत्तमम्
एकेन समरे येन हतं पुत्रशतं मम

९.२.४८असकृद्वदतस्तस्य दुर्योधनवधेन च
दुःखशोकाभिसंतप्तो न श्रोष्ये परुषा गिरः

९.२.४९एवं स शोकसंतप्तः पार्थिवो हतबान्धवः
मुहुर्मुहुर्मुह्यमानः पुत्राधिभिरभिप्लुतः

९.२.५०विलप्य सुचिरं कालं धृतराष्ट्रोऽम्बिकासुतः
दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा पराभवम्

९.२.५१दुःखेन महता राजा संतप्तो भरतर्षभ
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम्

९.२.५२भीष्मद्रोणौ हतौ श्रुत्वा सूतपुत्रं च पातितम्
सेनापतिं प्रणेतारं किमकुर्वत मामकाः

९.२.५३यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः
अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः

९.२.५४रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना
एवमेव हतो द्रोणः सर्वेषामेव पश्यताम्

९.२.५५एवमेव हतः कर्णः सूतपुत्रः प्रतापवान्
स राजकानां सर्वेषां पश्यतां वः किरीटिना

९.२.५६पूर्वमेवाहमुक्तो वै विदुरेण महात्मना
दुर्योधनापराधेन प्रजेयं विनशिष्यति

९.२.५७केचिन्न सम्यक्पश्यन्ति मूढाः सम्यक्तथापरे
तदिदं मम मूढस्य तथाभूतं वचः स्म ह

९.२.५८यदब्रवीन्मे धर्मात्मा विदुरो दीर्घदर्शिवान्
तत्तथा समनुप्राप्तं वचनं सत्यवादिनः

९.२.५९दैवोपहतचित्तेन यन्मयापकृतं पुरा
अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः

९.२.६०को वा मुखमनीकानामासीत्कर्णे निपातिते
अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी

९.२.६१केऽरक्षन्दक्षिणं चक्रं मद्रराजस्य संयुगे
वामं च योद्धुकामस्य के वा वीरस्य पृष्ठतः

९.२.६२कथं च वः समेतानां मद्रराजो महाबलः
निहतः पाण्डवैः संख्ये पुत्रो वा मम संजय

९.२.६३ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम्
यथा च निहतः संख्ये पुत्रो दुर्योधनो मम

९.२.६४पाञ्चालाश्च यथा सर्वे निहताः सपदानुगाः
धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः

९.२.६५पाण्डवाश्च यथा मुक्तास्तथोभौ सात्वतौ युधि
कृपश्च कृतवर्मा च भारद्वाजस्य चात्मजः

९.२.६६यद्यथा यादृशं चैव युद्धं वृत्तं च सांप्रतम्
अखिलं श्रोतुमिच्छामि कुशलो ह्यसि संजय