९.२९.१धृतराष्ट्र उवाच
९.२९.२हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे
मम सैन्यावशिष्टास्ते किमकुर्वत संजय
९.२९.३कृतवर्मा कृपश्चैव द्रोणपुत्रश्च वीर्यवान्
दुर्योधनश्च मन्दात्मा राजा किमकरोत्तदा
९.२९.४संजय उवाच
९.२९.५संप्राद्रवत्सु दारेषु क्षत्रियाणां महात्मनाम्
विद्रुते शिबिरे शून्ये भृशोद्विग्नास्त्रयो रथाः
९.२९.६निशम्य पाण्डुपुत्राणां तदा विजयिनां स्वनम्
विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्धिनः
स्थानं नारोचयंस्तत्र ततस्ते ह्रदमभ्ययुः
९.२९.७युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितो रणे
हृष्टः पर्यपतद्राजन्दुर्योधनवधेप्सया
९.२९.८मार्गमाणास्तु संक्रुद्धास्तव पुत्रं जयैषिणः
यत्नतोऽन्वेषमाणास्तु नैवापश्यञ्जनाधिपम्
९.२९.९स हि तीव्रेण वेगेन गदापाणिरपाक्रमत्
तं ह्रदं प्राविशच्चापि विष्टभ्यापः स्वमायया
९.२९.१०यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः
ततः स्वशिबिरं प्राप्य व्यतिष्ठन्सहसैनिकाः
९.२९.११ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः
संनिविष्टेषु पार्थेषु प्रयातास्तं ह्रदं शनैः
९.२९.१२ते तं ह्रदं समासाद्य यत्र शेते जनाधिपः
अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि
९.२९.१३राजन्नुत्तिष्ठ युध्यस्व सहास्माभिर्युधिष्ठिरम्
जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गमाप्नुहि
९.२९.१४तेषामपि बलं सर्वं हतं दुर्योधन त्वया
प्रतिरब्धाश्च भूयिष्ठं ये शिष्टास्तत्र सैनिकाः
९.२९.१५न ते वेगं विषहितुं शक्तास्तव विशां पते
अस्माभिरभिगुप्तस्य तस्मादुत्तिष्ठ भारत
९.२९.१६दुर्योधन उवाच
९.२९.१७दिष्ट्या पश्यामि वो मुक्तानीदृशात्पुरुषक्षयात्
पाण्डुकौरवसंमर्दाज्जीवमानान्नरर्षभान्
९.२९.१८विजेष्यामो वयं सर्वे विश्रान्ता विगतक्लमाः
भवन्तश्च परिश्रान्ता वयं च भृशविक्षताः
उदीर्णं च बलं तेषां तेन युद्धं न रोचये
९.२९.१९न त्वेतदद्भुतं वीरा यद्वो महदिदं मनः
अस्मासु च परा भक्तिर्न तु कालः पराक्रमे
९.२९.२०विश्रम्यैकां निशामद्य भवद्भिः सहितो रणे
प्रतियोत्स्याम्यहं शत्रूञ्श्वो न मेऽस्त्यत्र संशयः
९.२९.२१संजय उवाच
९.२९.२२एवमुक्तोऽब्रवीद्द्रौणी राजानं युद्धदुर्मदम्
उत्तिष्ठ राजन्भद्रं ते विजेष्यामो रणे परान्
९.२९.२३इष्टापूर्तेन दानेन सत्येन च जपेन च
शपे राजन्यथा ह्यद्य निहनिष्यामि सोमकान्
९.२९.२४मा स्म यज्ञकृतां प्रीतिं प्राप्नुयां सज्जनोचिताम्
यदीमां रजनीं व्युष्टां न निहन्मि परान्रणे
९.२९.२५नाहत्वा सर्वपाञ्चालान्विमोक्ष्ये कवचं विभो
इति सत्यं ब्रवीम्येतत्तन्मे शृणु जनाधिप
९.२९.२६तेषु संभाषमाणेषु व्याधास्तं देशमाययुः
मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया
९.२९.२७ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः
मांसभारानुपाजह्रुर्भक्त्या परमया विभो
९.२९.२८ते तत्र विष्ठितास्तेषां सर्वं तद्वचनं रहः
दुर्योधनवचश्चैव शुश्रुवुः संगता मिथः
९.२९.२९तेऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे
निर्बन्धं परमं चक्रुस्तदा वै युद्धकाङ्क्षिणः
९.२९.३०तांस्तथा समुदीक्ष्याथ कौरवाणां महारथान्
अयुद्धमनसं चैव राजानं स्थितमम्भसि
९.२९.३१तेषां श्रुत्वा च संवादं राज्ञश्च सलिले सतः
व्याधाभ्यजानन्राजेन्द्र सलिलस्थं सुयोधनम्
९.२९.३२ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्यासन्सुतं तव
यदृच्छोपगतास्तत्र राजानं परिमार्गिताः
९.२९.३३ततस्ते पाण्डुपुत्रस्य स्मृत्वा तद्भाषितं तदा
अन्योन्यमब्रुवन्राजन्मृगव्याधाः शनैरिदम्
९.२९.३४दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः
सुव्यक्तमिति नः ख्यातो ह्रदे दुर्योधनो नृपः
९.२९.३५तस्माद्गच्छामहे सर्वे यत्र राजा युधिष्ठिरः
आख्यातुं सलिले सुप्तं दुर्योधनममर्षणम्
९.२९.३६धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते
शयानं सलिले सर्वे कथयामो धनुर्भृते
९.२९.३७स नो दास्यति सुप्रीतो धनानि बहुलान्युत
किं नो मांसेन शुष्केण परिक्लिष्टेन शोषिणा
९.२९.३८एवमुक्त्वा ततो व्याधाः संप्रहृष्टा धनार्थिनः
मांसभारानुपादाय प्रययुः शिबिरं प्रति
९.२९.३९पाण्डवाश्च महाराज लब्धलक्षाः प्रहारिणः
अपश्यमानाः समरे दुर्योधनमवस्थितम्
९.२९.४०निकृतेस्तस्य पापस्य ते पारं गमनेप्सवः
चारान्संप्रेषयामासुः समन्तात्तद्रणाजिरम्
९.२९.४१आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम्
न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः
९.२९.४२तेषां तद्वचनं श्रुत्वा चाराणां भरतर्षभ
चिन्तामभ्यगमत्तीव्रां निशश्वास च पार्थिवः
९.२९.४३अथ स्थितानां पाण्डूनां दीनानां भरतर्षभ
तस्माद्देशादपक्रम्य त्वरिता लुब्धका विभो
९.२९.४४आजग्मुः शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम्
वार्यमाणाः प्रविष्टाश्च भीमसेनस्य पश्यतः
९.२९.४५ते तु पाण्डवमासाद्य भीमसेनं महाबलम्
तस्मै तत्सर्वमाचख्युर्यद्वृत्तं यच्च वै श्रुतम्
९.२९.४६ततो वृकोदरो राजन्दत्त्वा तेषां धनं बहु
धर्मराजाय तत्सर्वमाचचक्षे परंतपः
९.२९.४७असौ दुर्योधनो राजन्विज्ञातो मम लुब्धकैः
संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे
९.२९.४८तद्वचो भीमसेनस्य प्रियं श्रुत्वा विशां पते
अजातशत्रुः कौन्तेयो हृष्टोऽभूत्सह सोदरैः
९.२९.४९तं च श्रुत्वा महेष्वासं प्रविष्टं सलिलह्रदम्
क्षिप्रमेव ततोऽगच्छत्पुरस्कृत्य जनार्दनम्
९.२९.५०ततः किलकिलाशब्दः प्रादुरासीद्विशां पते
पाण्डवानां प्रहृष्टानां पाञ्चालानां च सर्वशः
९.२९.५१सिंहनादांस्ततश्चक्रुः क्ष्वेडांश्च भरतर्षभ
त्वरिताः क्षत्रिया राजञ्जग्मुर्द्वैपायनं ह्रदम्
९.२९.५२ज्ञातः पापो धार्तराष्ट्रो दृष्टश्चेत्यसकृद्रणे
प्राक्रोशन्सोमकास्तत्र हृष्टरूपाः समन्ततः
९.२९.५३तेषामाशु प्रयातानां रथानां तत्र वेगिनाम्
बभूव तुमुलः शब्दो दिवस्पृक्पृथिवीपते
९.२९.५४दुर्योधनं परीप्सन्तस्तत्र तत्र युधिष्ठिरम्
अन्वयुस्त्वरितास्ते वै राजानं श्रान्तवाहनाः
९.२९.५५अर्जुनो भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी चापराजितः
९.२९.५६उत्तमौजा युधामन्युः सात्यकिश्चापराजितः
पाञ्चालानां च ये शिष्टा द्रौपदेयाश्च भारत
हयाश्च सर्वे नागाश्च शतशश्च पदातयः
९.२९.५७ततः प्राप्तो महाराज धर्मपुत्रो युधिष्ठिरः
द्वैपायनह्रदं ख्यातं यत्र दुर्योधनोऽभवत्
९.२९.५८शीतामलजलं हृद्यं द्वितीयमिव सागरम्
मायया सलिलं स्तभ्य यत्राभूत्ते सुतः स्थितः
९.२९.५९अत्यद्भुतेन विधिना दैवयोगेन भारत
सलिलान्तर्गतः शेते दुर्दर्शः कस्यचित्प्रभो
मानुषस्य मनुष्येन्द्र गदाहस्तो जनाधिपः
९.२९.६०ततो दुर्योधनो राजा सलितान्तर्गतो वसन्
शुश्रुवे तुमुलं शब्दं जलदोपमनिःस्वनम्
९.२९.६१युधिष्ठिरस्तु राजेन्द्र ह्रदं तं सह सोदरैः
आजगाम महाराज तव पुत्रवधाय वै
९.२९.६२महता शङ्खनादेन रथनेमिस्वनेन च
उद्धुन्वंश्च महारेणुं कम्पयंश्चापि मेदिनीम्
९.२९.६३यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शब्दं महारथाः
कृतवर्मा कृपो द्रौणी राजानमिदमब्रुवन्
९.२९.६४इमे ह्यायान्ति संहृष्टाः पाण्डवा जितकाशिनः
अपयास्यामहे तावदनुजानातु नो भवान्
९.२९.६५दुर्योधनस्तु तच्छ्रुत्वा तेषां तत्र यशस्विनाम्
तथेत्युक्त्वा ह्रदं तं वै माययास्तम्भयत्प्रभो
९.२९.६६ते त्वनुज्ञाप्य राजानं भृशं शोकपरायणाः
जग्मुर्दूरं महाराज कृपप्रभृतयो रथाः
९.२९.६७ते गत्वा दूरमध्वानं न्यग्रोधं प्रेक्ष्य मारिष
न्यविशन्त भृशं श्रान्ताश्चिन्तयन्तो नृपं प्रति
९.२९.६८विष्टभ्य सलिलं सुप्तो धार्तराष्ट्रो महाबलः
पाण्डवाश्चापि संप्राप्तास्तं देशं युद्धमीप्सवः
९.२९.६९कथं नु युद्धं भविता कथं राजा भविष्यति
कथं नु पाण्डवा राजन्प्रतिपत्स्यन्ति कौरवम्
९.२९.७०इत्येवं चिन्तयन्तस्ते रथेभ्योऽश्वान्विमुच्य ह
तत्रासां चक्रिरे राजन्कृपप्रभृतयो रथाः