९. शल्यपर्व
९.३१.१धृतराष्ट्र उवाच

९.३१.२एवं संतर्ज्यमानस्तु मम पुत्रो महीपतिः
प्रकृत्या मन्युमान्वीरः कथमासीत्परंतपः

९.३१.३न हि संतर्जना तेन श्रुतपूर्वा कदाचन
राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत्

९.३१.४इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम्
प्रसादाद्ध्रियते यस्य प्रत्यक्षं तव संजय

९.३१.५स तथा तर्ज्यमानस्तु पाण्डुपुत्रैर्विशेषतः
विहीनश्च स्वकैर्भृत्यैर्निर्जने चावृतो भृशम्

९.३१.६श्रुत्वा स कटुका वाचो जययुक्ताः पुनः पुनः
किमब्रवीत्पाण्डवेयांस्तन्ममाचक्ष्व संजय

९.३१.७संजय उवाच

९.३१.८तर्ज्यमानस्तदा राजन्नुदकस्थस्तवात्मजः
युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह

९.३१.९श्रुत्वा स कटुका वाचो विषमस्थो जनाधिपः
दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनः पुनः

९.३१.१०सलिलान्तर्गतो राजा धुन्वन्हस्तौ पुनः पुनः
मनश्चकार युद्धाय राजानं चाभ्यभाषत

९.३१.११यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः
अहमेकः परिद्यूनो विरथो हतवाहनः

९.३१.१२आत्तशस्त्रै रथगतैर्बहुभिः परिवारितः
कथमेकः पदातिः सन्नशस्त्रो योद्धुमुत्सहे

९.३१.१३एकैकेन तु मां यूयं योधयध्वं युधिष्ठिर
न ह्येको बहुभिर्वीरैर्न्याय्यं योधयितुं युधि

९.३१.१४विशेषतो विकवचः श्रान्तश्चापः समाश्रितः
भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः

९.३१.१५न मे त्वत्तो भयं राजन्न च पार्थाद्वृकोदरात्
फल्गुनाद्वासुदेवाद्वा पाञ्चालेभ्योऽथ वा पुनः

९.३१.१६यमाभ्यां युयुधानाद्वा ये चान्ये तव सैनिकाः
एकः सर्वानहं क्रुद्धो न तान्योद्धुमिहोत्सहे

९.३१.१७धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप
धर्मं चैवेह कीर्तिं च पालयन्प्रब्रवीम्यहम्

९.३१.१८अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे
अन्वंशाभ्यागतान्सर्वानृतून्संवत्सरो यथा

९.३१.१९अद्य वः सरथान्साश्वानशस्त्रो विरथोऽपि सन्
नक्षत्राणीव सर्वाणि सविता रात्रिसंक्षये
तेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः

९.३१.२०अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनाम्
बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः

९.३१.२१जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः
मद्रराजस्य शल्यस्य भूरिश्रवस एव च

९.३१.२२पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च
मित्राणां सुहृदां चैव बान्धवानां तथैव च

९.३१.२३आनृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सह
एतावदुक्त्वा वचनं विरराम जनाधिपः

९.३१.२४युधिष्ठिर उवाच

९.३१.२५दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन
दिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज

९.३१.२६दिष्ट्या शूरोऽसि कौरव्य दिष्ट्या जानासि संगरम्
यस्त्वमेको हि नः सर्वान्संयुगे योद्धुमिच्छसि

९.३१.२७एक एकेन संगम्य यत्ते संमतमायुधम्
तत्त्वमादाय युध्यस्व प्रेक्षकास्ते वयं स्थिताः

९.३१.२८अयमिष्टं च ते कामं वीर भूयो ददाम्यहम्
हत्वैकं भवतो राज्यं हतो वा स्वर्गमाप्नुहि

९.३१.२९दुर्योधन उवाच

९.३१.३०एकश्चेद्योद्धुमाक्रन्दे वरोऽद्य मम दीयते
आयुधानामियं चापि वृता त्वत्संमते गदा

९.३१.३१भ्रातॄणां भवतामेकः शक्यं मां योऽभिमन्यते
पदातिर्गदया संख्ये स युध्यतु मया सह

९.३१.३२वृत्तानि रथयुद्धानि विचित्राणि पदे पदे
इदमेकं गदायुद्धं भवत्वद्याद्भुतं महत्

९.३१.३३अन्नानामपि पर्यायं कर्तुमिच्छन्ति मानवाः
युद्धानामपि पर्यायो भवत्वनुमते तव

९.३१.३४गदया त्वां महाबाहो विजेष्यामि सहानुजम्
पाञ्चालान्सृञ्जयांश्चैव ये चान्ये तव सैनिकाः

९.३१.३५युधिष्ठिर उवाच

९.३१.३६उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन
एक एकेन संगम्य संयुगे गदया बली

९.३१.३७पुरुषो भव गान्धारे युध्यस्व सुसमाहितः
अद्य ते जीवितं नास्ति यद्यपि त्वं मनोजवः

९.३१.३८संजय उवाच

९.३१.३९एतत्स नरशार्दूलो नामृष्यत तवात्मजः
सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन्

९.३१.४०तथासौ वाक्प्रतोदेन तुद्यमानः पुनः पुनः
वाचं न ममृषे धीमानुत्तमाश्वः कशामिव

९.३१.४१संक्षोभ्य सलिलं वेगाद्गदामादाय वीर्यवान्
अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम्
अन्तर्जलात्समुत्तस्थौ नागेन्द्र इव निःश्वसन्

९.३१.४२स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वायसीं गदाम्
उदतिष्ठत पुत्रस्ते प्रतपन्रश्मिमानिव

९.३१.४३ततः शैक्यायसीं गुर्वीं जातरूपपरिष्कृताम्
गदां परामृशद्धीमान्धार्तराष्ट्रो महाबलः

९.३१.४४गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम्
प्रजानामिव संक्रुद्धं शूलपाणिमवस्थितम्
सगदो भारतो भाति प्रतपन्भास्करो यथा

९.३१.४५तमुत्तीर्णं महाबाहुं गदाहस्तमरिंदमम्
मेनिरे सर्वभूतानि दण्डहस्तमिवान्तकम्

९.३१.४६वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम्
ददृशुः सर्वपाञ्चालाः पुत्रं तव जनाधिप

९.३१.४७तमुत्तीर्णं तु संप्रेक्ष्य समहृष्यन्त सर्वशः
पाञ्चालाः पाण्डवेयाश्च तेऽन्योन्यस्य तलान्ददुः

९.३१.४८अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव
उद्वृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान्

९.३१.४९त्रिशिखां भ्रुकुटीं कृत्वा संदष्टदशनच्छदः
प्रत्युवाच ततस्तान्वै पाण्डवान्सहकेशवान्

९.३१.५०अवहासस्य वोऽस्याद्य प्रतिवक्तास्मि पाण्डवाः
गमिष्यथ हताः सद्यः सपाञ्चाला यमक्षयम्

९.३१.५१उत्थितस्तु जलात्तस्मात्पुत्रो दुर्योधनस्तव
अतिष्ठत गदापाणी रुधिरेण समुक्षितः

९.३१.५२तस्य शोणितदिग्धस्य सलिलेन समुक्षितम्
शरीरं स्म तदा भाति स्रवन्निव महीधरः

९.३१.५३तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः
वैवस्वतमिव क्रुद्धं किंकरोद्यतपाणिनम्

९.३१.५४स मेघनिनदो हर्षान्नदन्निव च गोवृषः
आजुहाव ततः पार्थान्गदया युधि वीर्यवान्

९.३१.५५दुर्योधन उवाच

९.३१.५६एकैकेन च मां यूयमासीदत युधिष्ठिर
न ह्येको बहुभिर्न्याय्यो वीर योधयितुं युधि

९.३१.५७न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः
भृशं विक्षतगात्रश्च हतवाहनसैनिकः

९.३१.५८युधिष्ठिर उवाच

९.३१.५९नाभूदियं तव प्रज्ञा कथमेवं सुयोधन
यदाभिमन्युं बहवो जघ्नुर्युधि महारथाः

९.३१.६०आमुञ्च कवचं वीर मूर्धजान्यमयस्व च
यच्चान्यदपि ते नास्ति तदप्यादत्स्व भारत
इममेकं च ते कामं वीर भूयो ददाम्यहम्

९.३१.६१पञ्चानां पाण्डवेयानां येन योद्धुमिहेच्छसि
तं हत्वा वै भवान्राजा हतो वा स्वर्गमाप्नुहि
ऋते च जीविताद्वीर युद्धे किं कुर्म ते प्रियम्

९.३१.६२संजय उवाच

९.३१.६३ततस्तव सुतो राजन्वर्म जग्राह काञ्चनम्
विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम्

९.३१.६४सोऽवबद्धशिरस्त्राणः शुभकाञ्चनवर्मभृत्
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव

९.३१.६५संनद्धः स गदी राजन्सज्जः संग्राममूर्धनि
अब्रवीत्पाण्डवान्सर्वान्पुत्रो दुर्योधनस्तव

९.३१.६६भ्रातॄणां भवतामेको युध्यतां गदया मया
सहदेवेन वा योत्स्ये भीमेन नकुलेन वा

९.३१.६७अथ वा फल्गुनेनाद्य त्वया वा भरतर्षभ
योत्स्येऽहं संगरं प्राप्य विजेष्ये च रणाजिरे

९.३१.६८अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम्
गदया पुरुषव्याघ्र हेमपट्टविनद्धया

९.३१.६९गदायुद्धे न मे कश्चित्सदृशोऽस्तीति चिन्तय
गदया वो हनिष्यामि सर्वानेव समागतान्
गृह्णातु स गदां यो वै युध्यतेऽद्य मया सह