९.३२.१संजय उवाच
९.३२.२एवं दुर्योधने राजन्गर्जमाने मुहुर्मुहुः
युधिष्ठिरस्य संक्रुद्धो वासुदेवोऽब्रवीदिदम्
९.३२.३यदि नाम ह्ययं युद्धे वरयेत्त्वां युधिष्ठिर
अर्जुनं नकुलं वापि सहदेवमथापि वा
९.३२.४किमिदं साहसं राजंस्त्वया व्याहृतमीदृशम्
एकमेव निहत्याजौ भव राजा कुरुष्विति
९.३२.५एतेन हि कृता योग्या वर्षाणीह त्रयोदश
आयसे पुरुषे राजन्भीमसेनजिघांसया
९.३२.६कथं नाम भवेत्कार्यमस्माभिर्भरतर्षभ
साहसं कृतवांस्त्वं तु ह्यनुक्रोशान्नृपोत्तम
९.३२.७नान्यमस्यानुपश्यामि प्रतियोद्धारमाहवे
ऋते वृकोदरात्पार्थात्स च नातिकृतश्रमः
९.३२.८तदिदं द्यूतमारब्धं पुनरेव यथा पुरा
विषमं शकुनेश्चैव तव चैव विशां पते
९.३२.९बली भीमः समर्थश्च कृती राजा सुयोधनः
बलवान्वा कृती वेति कृती राजन्विशिष्यते
९.३२.१०सोऽयं राजंस्त्वया शत्रुः समे पथि निवेशितः
न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम्
९.३२.११को नु सर्वान्विनिर्जित्य शत्रूनेकेन वैरिणा
पणित्वा चैकपाणेन रोचयेदेवमाहवम्
९.३२.१२न हि पश्यामि तं लोके गदाहस्तं नरोत्तमम्
युध्येद्दुर्योधनं संख्ये कृतित्वाद्धि विशेषयेत्
९.३२.१३फल्गुनं वा भवन्तं वा माद्रीपुत्रावथापि वा
न समर्थानहं मन्ये गदाहस्तस्य संयुगे
९.३२.१४स कथं वदसे शत्रुं युध्यस्व गदयेति ह
एकं च नो निहत्याजौ भव राजेति भारत
९.३२.१५वृकोदरं समासाद्य संशयो विजये हि नः
न्यायतो युध्यमानानां कृती ह्येष महाबलः
९.३२.१६भीम उवाच
९.३२.१७मधुसूदन मा कार्षीर्विषादं यदुनन्दन
अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम्
९.३२.१८अहं सुयोधनं संख्ये हनिष्यामि न संशयः
विजयो वै ध्रुवं कृष्ण धर्मराजस्य दृश्यते
९.३२.१९अध्यर्धेन गुणेनेयं गदा गुरुतरी मम
न तथा धार्तराष्ट्रस्य मा कार्षीर्माधव व्यथाम्
९.३२.२०सामरानपि लोकांस्त्रीन्नानाशस्त्रधरान्युधि
योधयेयं रणे हृष्टः किमुताद्य सुयोधनम्
९.३२.२१संजय उवाच
९.३२.२२तथा संभाषमाणं तु वासुदेवो वृकोदरम्
हृष्टः संपूजयामास वचनं चेदमब्रवीत्
९.३२.२३त्वामाश्रित्य महाबाहो धर्मराजो युधिष्ठिरः
निहतारिः स्वकां दीप्तां श्रियं प्राप्तो न संशयः
९.३२.२४त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे
राजानो राजपुत्राश्च नागाश्च विनिपातिताः
९.३२.२५कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा
त्वामासाद्य महायुद्धे निहताः पाण्डुनन्दन
९.३२.२६हत्वा दुर्योधनं चापि प्रयच्छोर्वीं ससागराम्
धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः
९.३२.२७त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनङ्क्ष्यति
त्वमस्य सक्थिनी भङ्क्त्वा प्रतिज्ञां पारयिष्यसि
९.३२.२८यत्नेन तु सदा पार्थ योद्धव्यो धृतराष्ट्रजः
कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा
९.३२.२९ततस्तु सात्यकी राजन्पूजयामास पाण्डवम्
विविधाभिश्च तां वाग्भिः पूजयामास माधवः
९.३२.३०पाञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः
तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन्
९.३२.३१ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत्
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम्
९.३२.३२अहमेतेन संगम्य संयुगे योद्धुमुत्सहे
न हि शक्तो रणे जेतुं मामेष पुरुषाधमः
९.३२.३३अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम्
सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः
९.३२.३४शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम्
निहत्य गदया पापमद्य राजन्सुखी भव
९.३२.३५अद्य कीर्तिमयीं मालां प्रतिमोक्ष्ये तवानघ
प्राणाञ्श्रियं च राज्यं च मोक्ष्यतेऽद्य सुयोधनः
९.३२.३६राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम्
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम्
९.३२.३७इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य वीर्यवान्
उदतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन्
९.३२.३८तमेकाकिनमासाद्य धार्तराष्ट्रं महाबलम्
निर्यूथमिव मातङ्गं समहृष्यन्त पाण्डवाः
९.३२.३९तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्
भीमसेनस्तदा राजन्दुर्योधनमथाब्रवीत्
९.३२.४०राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत्कृतम्
स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते
९.३२.४१द्रौपदी च परिक्लिष्टा सभामध्ये रजस्वला
द्यूते यद्विजितो राजा शकुनेर्बुद्धिनिश्चयात्
९.३२.४२यानि चान्यानि दुष्टात्मन्पापानि कृतवानसि
अनागःसु च पार्थेषु तस्य पश्य महत्फलम्
९.३२.४३त्वत्कृते निहतः शेते शरतल्पे महायशाः
गाङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः
९.३२.४४हतो द्रोणश्च कर्णश्च हतः शल्यः प्रतापवान्
वैरस्य चादिकर्तासौ शकुनिर्निहतो युधि
९.३२.४५भ्रातरस्ते हताः शूराः पुत्राश्च सहसैनिकाः
राजानश्च हताः शूराः समरेष्वनिवर्तिनः
९.३२.४६एते चान्ये च निहता बहवः क्षत्रियर्षभाः
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः
९.३२.४७अवशिष्टस्त्वमेवैकः कुलघ्नोऽधमपूरुषः
त्वामप्यद्य हनिष्यामि गदया नात्र संशयः
९.३२.४८अद्य तेऽहं रणे दर्पं सर्वं नाशयिता नृप
राज्याशां विपुलां राजन्पाण्डवेषु च दुष्कृतम्
९.३२.४९दुर्योधन उवाच
९.३२.५०किं कत्थितेन बहुधा युध्यस्वाद्य मया सह
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर
९.३२.५१किं न पश्यसि मां पाप गदायुद्धे व्यवस्थितम्
हिमवच्छिखराकारां प्रगृह्य महतीं गदाम्
९.३२.५२गदिनं कोऽद्य मां पाप जेतुमुत्सहते रिपुः
न्यायतो युध्यमानस्य देवेष्वपि पुरंदरः
९.३२.५३मा वृथा गर्ज कौन्तेय शारदाभ्रमिवाजलम्
दर्शयस्व बलं युद्धे यावत्तत्तेऽद्य विद्यते
९.३२.५४तस्य तद्वचनं श्रुत्वा पाञ्चालाः सहसृञ्जयाः
सर्वे संपूजयामासुस्तद्वचो विजिगीषवः
९.३२.५५तं मत्तमिव मातङ्गं तलशब्देन मानवाः
भूयः संहर्षयामासू राजन्दुर्योधनं नृपम्
९.३२.५६बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत्
शस्त्राणि संप्रदीप्यन्ते पाण्डवानां जयैषिणाम्