९.३३.१संजय उवाच
९.३३.२तस्मिन्युद्धे महाराज संप्रवृत्ते सुदारुणे
उपविष्टेषु सर्वेषु पाण्डवेषु महात्मसु
९.३३.३ततस्तालध्वजो रामस्तयोर्युद्ध उपस्थिते
श्रुत्वा तच्छिष्ययो राजन्नाजगाम हलायुधः
९.३३.४तं दृष्ट्वा परमप्रीताः पूजयित्वा नराधिपाः
शिष्ययोः कौशलं युद्धे पश्य रामेति चाब्रुवन्
९.३३.५अब्रवीच्च तदा रामो दृष्ट्वा कृष्णं च पाण्डवम्
दुर्योधनं च कौरव्यं गदापाणिमवस्थितम्
९.३३.६चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै
पुष्येण संप्रयातोऽस्मि श्रवणे पुनरागतः
शिष्ययोर्वै गदायुद्धं द्रष्टुकामोऽस्मि माधव
९.३३.७ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम्
स्वागतं कुशलं चास्मै पर्यपृच्छद्यथातथम्
९.३३.८कृष्णौ चापि महेष्वासावभिवाद्य हलायुधम्
सस्वजाते परिप्रीतौ प्रियमाणौ यशस्विनौ
९.३३.९माद्रीपुत्रौ तथा शूरौ द्रौपद्याः पञ्च चात्मजाः
अभिवाद्य स्थिता राजन्रौहिणेयं महाबलम्
९.३३.१०भीमसेनोऽथ बलवान्पुत्रस्तव जनाधिप
तथैव चोद्यतगदौ पूजयामासतुर्बलम्
९.३३.११स्वागतेन च ते तत्र प्रतिपूज्य पुनः पुनः
पश्य युद्धं महाबाहो इति ते राममब्रुवन्
एवमूचुर्महात्मानं रौहिणेयं नराधिपाः
९.३३.१२परिष्वज्य तदा रामः पाण्डवान्सृञ्जयानपि
अपृच्छत्कुशलं सर्वान्पाण्डवांश्चामितौजसः
तथैव ते समासाद्य पप्रच्छुस्तमनामयम्
९.३३.१३प्रत्यभ्यर्च्य हली सर्वान्क्षत्रियांश्च महामनाः
कृत्वा कुशलसंयुक्तां संविदं च यथावयः
९.३३.१४जनार्दनं सात्यकिं च प्रेम्णा स परिषस्वजे
मूर्ध्नि चैतावुपाघ्राय कुशलं पर्यपृच्छत
९.३३.१५तौ चैनं विधिवद्राजन्पूजयामासतुर्गुरुम्
ब्रह्माणमिव देवेशमिन्द्रोपेन्द्रौ मुदा युतौ
९.३३.१६ततोऽब्रवीद्धर्मसुतो रौहिणेयमरिंदमम्
इदं भ्रात्रोर्महायुद्धं पश्य रामेति भारत
९.३३.१७तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः
न्यविशत्परमप्रीतः पूज्यमानो महारथैः
९.३३.१८स बभौ राजमध्यस्थो नीलवासाः सितप्रभः
दिवीव नक्षत्रगणैः परिकीर्णो निशाकरः
९.३३.१९ततस्तयोः संनिपातस्तुमुलो रोमहर्षणः
आसीदन्तकरो राजन्वैरस्य तव पुत्रयोः