९.६.१संजय उवाच
९.६.२एतच्छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान्
दुर्योधनं तदा राजन्वाक्यमेतदुवाच ह
९.६.३दुर्योधन महाबाहो शृणु वाक्यविदां वर
यावेतौ मन्यसे कृष्णौ रथस्थौ रथिनां वरौ
न मे तुल्यावुभावेतौ बाहुवीर्ये कथंचन
९.६.४उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम्
योधयेयं रणमुखे संक्रुद्धः किमु पाण्डवान्
विजेष्ये च रणे पार्थान्सोमकांश्च समागतान्
९.६.५अहं सेनाप्रणेता ते भविष्यामि न संशयः
तं च व्यूहं विधास्यामि न तरिष्यन्ति यं परे
इति सत्यं ब्रवीम्येष दुर्योधन न संशयः
९.६.६एवमुक्तस्ततो राजा मद्राधिपतिमञ्जसा
अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम
विधिना शास्त्रदृष्टेन हृष्टरूपो विशां पते
९.६.७अभिषिक्ते ततस्तस्मिन्सिंहनादो महानभूत्
तव सैन्येष्ववाद्यन्त वादित्राणि च भारत
९.६.८हृष्टाश्चासंस्तदा योधा मद्रकाश्च महारथाः
तुष्टुवुश्चैव राजानं शल्यमाहवशोभिनम्
९.६.९जय राजंश्चिरं जीव जहि शत्रून्समागतान्
तव बाहुबलं प्राप्य धार्तराष्ट्रा महाबलाः
निखिलां पृथिवीं सर्वां प्रशासन्तु हतद्विषः
९.६.१०त्वं हि शक्तो रणे जेतुं ससुरासुरमानवान्
मर्त्यधर्माण इह तु किमु सोमकसृञ्जयान्
९.६.११एवं संस्तूयमानस्तु मद्राणामधिपो बली
हर्षं प्राप तदा वीरो दुरापमकृतात्मभिः
९.६.१२शल्य उवाच
९.६.१३अद्यैवाहं रणे सर्वान्पाञ्चालान्सह पाण्डवैः
निहनिष्यामि राजेन्द्र स्वर्गं यास्यामि वा हतः
९.६.१४अद्य पश्यन्तु मां लोका विचरन्तमभीतवत्
अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः
९.६.१५पाञ्चालाश्चेदयश्चैव द्रौपदेयाश्च सर्वशः
धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः
९.६.१६विक्रमं मम पश्यन्तु धनुषश्च महद्बलम्
लाघवं चास्त्रवीर्यं च भुजयोश्च बलं युधि
९.६.१७अद्य पश्यन्तु मे पार्थाः सिद्धाश्च सह चारणैः
यादृशं मे बलं बाह्वोः संपदस्त्रेषु या च मे
९.६.१८अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः
प्रतीकारपरा भूत्वा चेष्टन्तां विविधाः क्रियाः
९.६.१९अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः
द्रोणभीष्मावति विभो सूतपुत्रं च संयुगे
विचरिष्ये रणे युध्यन्प्रियार्थं तव कौरव
९.६.२०संजय उवाच
९.६.२१अभिषिक्ते तदा शल्ये तव सैन्येषु मानद
न कर्णव्यसनं किंचिन्मेनिरे तत्र भारत
९.६.२२हृष्टाः सुमनसश्चैव बभूवुस्तत्र सैनिकाः
मेनिरे निहतान्पार्थान्मद्रराजवशं गतान्
९.६.२३प्रहर्षं प्राप्य सेना तु तावकी भरतर्षभ
तां रात्रिं सुखिनी सुप्ता स्वस्थचित्तेव साभवत्
९.६.२४सैन्यस्य तव तं शब्दं श्रुत्वा राजा युधिष्ठिरः
वार्ष्णेयमब्रवीद्वाक्यं सर्वक्षत्रस्य शृण्वतः
९.६.२५मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माधव
सेनापतिर्महेष्वासः सर्वसैन्येषु पूजितः
९.६.२६एतज्ज्ञात्वा यथाभूतं कुरु माधव यत्क्षमम्
भवान्नेता च गोप्ता च विधत्स्व यदनन्तरम्
९.६.२७तमब्रवीन्महाराज वासुदेवो जनाधिपम्
आर्तायनिमहं जाने यथातत्त्वेन भारत
९.६.२८वीर्यवांश्च महातेजा महात्मा च विशेषतः
कृती च चित्रयोधी च संयुक्तो लाघवेन च
९.६.२९यादृग्भीष्मस्तथा द्रोणो यादृक्कर्णश्च संयुगे
तादृशस्तद्विशिष्टो वा मद्रराजो मतो मम
९.६.३०युध्यमानस्य तस्याजौ चिन्तयन्नेव भारत
योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप
९.६.३१शिखण्ड्यर्जुनभीमानां सात्वतस्य च भारत
धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे
९.६.३२मद्रराजो महाराज सिंहद्विरदविक्रमः
विचरिष्यत्यभीः काले कालः क्रुद्धः प्रजास्विव
९.६.३३तस्याद्य न प्रपश्यामि प्रतियोद्धारमाहवे
त्वामृते पुरुषव्याघ्र शार्दूलसमविक्रमम्
९.६.३४सदेवलोके कृत्स्नेऽस्मिन्नान्यस्त्वत्तः पुमान्भवेत्
मद्रराजं रणे क्रुद्धं यो हन्यात्कुरुनन्दन
अहन्यहनि युध्यन्तं क्षोभयन्तं बलं तव
९.६.३५तस्माज्जहि रणे शल्यं मघवानिव शम्बरम्
अतिपश्चादसौ वीरो धार्तराष्ट्रेण सत्कृतः
९.६.३६तवैव हि जयो नूनं हते मद्रेश्वरे युधि
तस्मिन्हते हतं सर्वं धार्तराष्ट्रबलं महत्
९.६.३७एतच्छ्रुत्वा महाराज वचनं मम सांप्रतम्
प्रत्युद्याहि रणे पार्थ मद्रराजं महाबलम्
जहि चैनं महाबाहो वासवो नमुचिं यथा
९.६.३८न चैवात्र दया कार्या मातुलोऽयं ममेति वै
क्षत्रधर्मं पुरस्कृत्य जहि मद्रजनेश्वरम्
९.६.३९भीष्मद्रोणार्णवं तीर्त्वा कर्णपातालसंभवम्
मा निमज्जस्व सगणः शल्यमासाद्य गोष्पदम्
९.६.४०यच्च ते तपसो वीर्यं यच्च क्षात्रं बलं तव
तद्दर्शय रणे सर्वं जहि चैनं महारथम्
९.६.४१एतावदुक्त्वा वचनं केशवः परवीरहा
जगाम शिबिरं सायं पूज्यमानोऽथ पाण्डवैः
९.६.४२केशवे तु तदा याते धर्मराजो युधिष्ठिरः
विसृज्य सर्वान्भ्रातॄंश्च पाञ्चालानथ सोमकान्
सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः
९.६.४३ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास्तथा
कर्णस्य निधने हृष्टाः सुषुपुस्तां निशां तदा
९.६.४४गतज्वरं महेष्वासं तीर्णपारं महारथम्
बभूव पाण्डवेयानां सैन्यं प्रमुदितं निशि
सूतपुत्रस्य निधने जयं लब्ध्वा च मारिष