९. शल्यपर्व
९.७.१संजय उवाच

९.७.२व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा
अब्रवीत्तावकान्सर्वान्संनह्यन्तां महारथाः

९.७.३राज्ञस्तु मतमाज्ञाय समनह्यत सा चमूः
अयोजयन्रथांस्तूर्णं पर्यधावंस्तथापरे

९.७.४अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः
हयानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः

९.७.५वादित्राणां च निनदः प्रादुरासीद्विशां पते
बोधनार्थं हि योधानां सैन्यानां चाप्युदीर्यताम्

९.७.६ततो बलानि सर्वाणि सेनाशिष्टानि भारत
संनद्धान्येव ददृशुर्मृत्युं कृत्वा निवर्तनम्

९.७.७शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः
प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः

९.७.८ततः सर्वे समागम्य पुत्रेण तव सैनिकाः
कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः

९.७.९अन्ये च पार्थिवाः शेषाः समयं चक्रिरे तदा
न न एकेन योद्धव्यं कथंचिदपि पाण्डवैः

९.७.१०यो ह्येकः पाण्डवैर्युध्येद्यो वा युध्यन्तमुत्सृजेत्
स पञ्चभिर्भवेद्युक्तः पातकैः सोपपातकैः
अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च नः

९.७.११एवं ते समयं कृत्वा सर्वे तत्र महारथाः
मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन्परान्

९.७.१२तथैव पाण्डवा राजन्व्यूह्य सैन्यं महारणे
अभ्ययुः कौरवान्सर्वान्योत्स्यमानाः समन्ततः

९.७.१३तद्बलं भरतश्रेष्ठ क्षुब्धार्णवसमस्वनम्
समुद्धूतार्णवाकारमुद्धूतरथकुञ्जरम्

९.७.१४धृतराष्ट्र उवाच

९.७.१५द्रोणस्य भीष्मस्य च वै राधेयस्य च मे श्रुतम्
पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे

९.७.१६कथं रणे हतः शल्यो धर्मराजेन संजय
भीमेन च महाबाहुः पुत्रो दुर्योधनो मम

९.७.१७संजय उवाच

९.७.१८क्षयं मनुष्यदेहानां रथनागाश्वसंक्षयम्
शृणु राजन्स्थिरो भूत्वा संग्रामं शंसतो मम

९.७.१९आशा बलवती राजन्पुत्राणां तेऽभवत्तदा
हते भीष्मे च द्रोणे च सूतपुत्रे च पातिते
शल्यः पार्थान्रणे सर्वान्निहनिष्यति मारिष

९.७.२०तामाशां हृदये कृत्वा समाश्वास्य च भारत
मद्रराजं च समरे समाश्रित्य महारथम्
नाथवन्तमथात्मानममन्यत सुतस्तव

९.७.२१यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे
तदा राजन्धार्तराष्ट्रानाविवेश महद्भयम्

९.७.२२तान्समाश्वास्य तु तदा मद्रराजः प्रतापवान्
व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत्

९.७.२३प्रत्युद्यातो रणे पार्थान्मद्रराजः प्रतापवान्
विधुन्वन्कार्मुकं चित्रं भारघ्नं वेगवत्तरम्

९.७.२४रथप्रवरमास्थाय सैन्धवाश्वं महारथः
तस्य सीता महाराज रथस्थाशोभयद्रथम्

९.७.२५स तेन संवृतो वीरो रथेनामित्रकर्शनः
तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत्

९.७.२६प्रयाणे मद्रराजोऽभून्मुखं व्यूहस्य दंशितः
मद्रकैः सहितो वीरैः कर्णपुत्रैश्च दुर्जयैः

९.७.२७सव्येऽभूत्कृतवर्मा च त्रिगर्तैः परिवारितः
गौतमो दक्षिणे पार्श्वे शकैश्च यवनैः सह

९.७.२८अश्वत्थामा पृष्ठतोऽभूत्काम्बोजैः परिवारितः
दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुंगवैः

९.७.२९हयानीकेन महता सौबलश्चापि संवृतः
प्रययौ सर्वसैन्येन कैतव्यश्च महारथः

९.७.३०पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिंदमाः
त्रिधा भूत्वा महाराज तव सैन्यमुपाद्रवन्

९.७.३१धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः
शल्यस्य वाहिनीं तूर्णमभिदुद्रुवुराहवे

९.७.३२ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः
शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभ

९.७.३३हार्दिक्यं तु महेष्वासमर्जुनः शत्रुपूगहा
संशप्तकगणांश्चैव वेगतोऽभिविदुद्रुवे

९.७.३४गौतमं भीमसेनो वै सोमकाश्च महारथाः
अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान्युधि

९.७.३५माद्रीपुत्रौ तु शकुनिमुलूकं च महारथौ
ससैन्यौ सहसेनौ तावुपतस्थतुराहवे

९.७.३६तथैवायुतशो योधास्तावकाः पाण्डवान्रणे
अभ्यद्रवन्त संक्रुद्धा विविधायुधपाणयः

९.७.३७धृतराष्ट्र उवाच

९.७.३८हते भीष्मे महेष्वासे द्रोणे कर्णे महारथे
कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे

९.७.३९सुसंरब्धेषु पार्थेषु पराक्रान्तेषु संजय
मामकानां परेषां च किं शिष्टमभवद्बलम्

९.७.४०संजय उवाच

९.७.४१यथा वयं परे राजन्युद्धाय समवस्थिताः
यावच्चासीद्बलं शिष्टं संग्रामे तन्निबोध मे

९.७.४२एकादश सहस्राणि रथानां भरतर्षभ
दश दन्तिसहस्राणि सप्त चैव शतानि च

९.७.४३पूर्णे शतसहस्रे द्वे हयानां भरतर्षभ
नरकोट्यस्तथा तिस्रो बलमेतत्तवाभवत्

९.७.४४रथानां षट्सहस्राणि षट्सहस्राश्च कुञ्जराः
दश चाश्वसहस्राणि पत्तिकोटी च भारत

९.७.४५एतद्बलं पाण्डवानामभवच्छेषमाहवे
एत एव समाजग्मुर्युद्धाय भरतर्षभ

९.७.४६एवं विभज्य राजेन्द्र मद्रराजमते स्थिताः
पाण्डवान्प्रत्युदीयाम जयगृद्धाः प्रमन्यवः

९.७.४७तथैव पाण्डवाः शूराः समरे जितकाशिनः
उपयाता नरव्याघ्राः पाञ्चालाश्च यशस्विनः

९.७.४८एवमेते बलौघेन परस्परवधैषिणः
उपयाता नरव्याघ्राः पूर्वां संध्यां प्रति प्रभो

९.७.४९ततः प्रववृते युद्धं घोररूपं भयानकम्
तावकानां परेषां च निघ्नतामितरेतरम्